________________
७/२१]
सप्तमोऽध्यायः
२४५
दीनां हिंसोपकरणानां यो विक्रयः क्रियते व्यवहारच क्रियते स्वयं वा सङ्ग्रहो विधीयते तत् हिंसाप्रदानमुच्यते । अध हिंसाप्रवर्तक शास्त्रम् अश्वमेधादि, रागप्रवर्तकं शास्त्र कुशोकनामादि, द्वेषप्रवर्तकं शाखं नानाप्रकार, मधुमांसादिप्रवर्तकं शास्त्रं स्मृत्यादि तेषां शास्त्राणां कथनं श्रवणं शिक्षणं व्यापारश्च दुःश्रुतिरुच्यते । तथाऽनर्थकं पर्यटनं पर्यटनविषयोपसेवनम् अनर्थदण्ड उच्यते । तस्य सर्वस्यापि परिहरणम् अनर्थदण्डविरतित्रतनामकं तृतीयं घ्रतं भवति । एतानि ५ श्रीणि व्रतानि पञ्चानामत्रतानां गुणादकत्वादपरतीहाराज
सामायिकम् - समशब्दः एकत्वे एकीभावे वर्तते, यथा सङ्गतं घृतं सङ्गतं तैलम् एकीभूतमित्यर्थः । अयनमयः सम एकत्वेन अयनं गमनं परिणमनं समयः, समय एव सामायिकम् स्वार्थे इण् । अथवा समयः प्रयोजनमस्येति सामायिक प्रयोजनार्थे इकण् । कोऽर्थः १ देववन्दनायां निःसंक्लेशं सर्वप्राणिसमताचिन्तनं सामायिकमित्यर्थः । एतावति देशे एतावति १० काले अहं सामायिके स्थास्यामीति या कृता प्रतिज्ञा वर्तते तावति काले सर्वसावद्ययोगविरतस्वाद गृहस्थोऽपि महाव्रतीत्युपचर्यते । तर्हि स गृहस्थः तस्मिन् काले किं संयमी भवति ? नैवम्, संयम घातकर्मोदय सभाषात्। उक्तन-
"प्रत्याख्यानतनुत्वान्मन्दतरराश्चरणमोहपरिणामाः ।
सवेन दुखधारा महाव्रताय प्रकल्पन्ते ॥ १ ॥ " [ रत्नक० ३१२५] १५ प्रत्याख्यानशब्देन संयमघातस्तृतीयकषायचतुष्कं ज्ञातव्यम् । तर्हि तस्मिन् सामायिकपरिणते गृहस्थे महाव्रतत्वाभावः; तन्न उपचारान्महात्रतत्वाभावो न भवति, यथा राजत्वं विनापि सामान्योऽपि क्षत्रियः राजकुल इत्युच्यते यथा च बहुदेशे प्राप्तो देवदत्तः कचित्कचिदमनोऽपि सर्वगत इत्युच्यते, तथा च चैत्राभिधानोऽयं पुमान् चित्रावसद्भावेऽपि चैत्र इत्युच्यते सामायिक प्रत परिणतोऽगारी परिपूर्ण संयमं विनापि महात्रतीत्युपचर्यते ।
अष्टमी चतुर्दशी पर्वद्वयं प्रोषध इत्युपचर्यते । प्रोषवं उपवासः - स्पर्शरसगन्धवर्ण शब्दगेषु पञ्चसु विषयेषु परिनत्सुक्यानि पश्चापि इन्द्रियाणि उपेत्य आगत्य तस्मिन् 'उपवासे सन्ति हत्युपवासः । अशनपानखाद्य लेह्य लक्षण चतुर्विधाहारपरिहार इत्यर्थः । सर्वसाधार
२०
शरीरसंस्कार करणस्नान गन्धमाल्याभरणनस्यादिविवर्जितः पवित्रप्रदेशे मुनिवासे चैत्यालये कोषोपवासमन्दिरे वा धर्मकथां कथयन् शृण्वन् चिन्तयन् वा अवहितान्तकरण एकाम- २५ अमाः सन् उपवासं कुर्यात् । स श्रावकः प्रोषधोपवासव्रतो भवति ।
उपभोगपरिभागपरिमाणतं कथ्यते--अशन पानगन्धमाल्यताम्बूलादिक उपभोगः आच्छादनप्रावरणभूषणशय्यासनगृह्यानवाह नवनितादिकः परिभोग उच्यते । उपपरिभोगश्च उपभोगपरिभोगों तयोः परिमाणम् उपभोगपरिभोगपरिमाणम् । भोगोपभोरिमाणमिति च कचित्पाठो वर्तते । तत्र अशनादिक यत्सकृद्भुज्यते स भोगः, वस्त्रवनि- ३० १ न् काले उन आ०, ब० ज० | २ - रणादिनि आ०, ब०, अ० । विदेशे आ
སྐ?
ज० ।