SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १/र ] सप्तमोऽध्यायः २३७ क्लिश्यमानाः । तत्स्वार्था कर्ण नस्त्रीकरण, स्यामृते अनुत्पन्नसम्यत्र वादिगुणा न विजेतुं शिक्षयितुं शक्यन्ते ये ते अविनेयाः । सत्त्वाश्च गुणाधिकाश्च क्लिश्यमानाश्च अविलेया सगुणाधिकक्लिश्यमानाविनेयास्तेषु तथोकेषु । अस्यायमर्थः - सत्त्वेषु सर्व जीवेषु मैत्री भावनीया गुणाधिकेषु सद्ध्यादिपु प्रमोदो विधेयः । क्लिश्यमानेषु दुःखीभवत्सु मर्यादर्शक :- आचार्य श्री सुविधिसा मादिषु जिनधर्म- ५ arry निर्गुणेषु प्राणित्रु माध्यस्थ्यं मध्यस्थता औदासीन्यं भावनीयम् । एतासु भावनासु भायमानासु अहिंसादयो व्रताः मनागूना अपि परिपूर्णा भवन्ति । चकारः परस्परसमुच्चये ते पूर्वोक्तसूत्रार्थेषु अत्र च । 1 अथ भूयोऽपि भावना विशेषप्रतिपादनार्थ सूत्रमिदमाहुः- जगस्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ १० गच्छतीति जगद् “द्युतिगमो च" [ का० सू० ४|४|१८ ] इति साधुः । जगरुच काय जगत्कायो जगत्काययोः स्वभावौ जगत्का यस्वभाव | संवेजनं संवेगः, विरागस्य कर्म चाभ्यम् । संवेगश्च संसारभीरुता धर्मानुरागो वा वैराग्यञ्च शरीरभोगादिनिर्वेदः संवेगवेराग्ये, तयोरर्थः प्रयोजनं यस्मिन् भावनकर्मणि तत् संवेगवैराग्यार्थम् । जगत्स्वभावः संसारस्वरूप चिन्तनं लोकस्वरूपभावनम् कायस्वभावः अशुचित्वादिस्वरूप- १५ चिन्तनम् । एतद् भावनाद्वयं संवेगवेराग्यार्थं भवति । वाशब्दः पक्षान्तरं सूचयति तेनाहिंसादितानां रथं च वेदितव्यम् । ." तत्र तावज्जगत्स्वभावः उच्यते जगत् त्रैलोक्यम् अनादिनिधनम् अधोजगत् वेत्रासनाकारं मध्य जगत् झहरीसदृशम् ऊर्ध्वजगत मृदङ्गसन्निभम् ऊदूर्ध्वमर्दलाकारम् । अस्मि अगति अनादिसंसारे अनादिकाले चतुरशीतिलक्ष योनिषु प्राणिनः शारीरमानसागन्तुक - २० दुःखनसावं भोजं भोजं भुक्त्वा भुक्त्वा पर्यदन्ति परिभ्रमन्ति । अत्र जगति किंचिदपि यौवनादिकं नियतं न वर्तते शाश्वतं नास्ति, आयुर्जलबुद्बुदसमानं भोगसम्पदः तडिन्मे पेन्द्रचापादिविकृति चञ्चलाः । अस्मिञ्जगति जीवस्य इन्द्रधर गन्द्रचक्रवत्यादिकः कोऽपि विपदि जाता न वर्तते । इदं जगज्जन्मजरामरणस्थानं वर्तते । इत्यादि भावनायाः संसारसंवेगो भवभीरुता भवति, अहिंसादयो वाच स्थिरत्वं प्रतिलभन्ते । २५ कायस्वभाव उच्यते — कायः खलु अधुवः दुःखहेतुः निःसारोऽशुचिः बीभत्सुदुर्गन्धः मूत्रनिधानं मन्तापहेतुः पापोपार्जन पण्डितः येन केनचित् पदेन पतनशीलः इत्येवं कायस्वभावभावना विपरागनिवृत्ति संचति, वैराग्यमुलद्यते, व्रतानां स्थेयं भवति, तेनंतौ जगarrera भावनीयो । अथ हिंसादीनां पञ्चपातकानां स्वरूपनिरूपणार्थं सूत्राणि मनसि धृत्वा युगपद् वक्तु- ३० १ दृष्टिषु आ०, ब० ० २ सुत्रे च ० ० ० १ ३ ससार आ०, ब० ज० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy