________________
तत्त्वार्थवृत्ती
| ६।२१-२२
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
कोऽर्थः ? चारकेण बन्धविशेषेण निरोधबन्धनबद्धो गाढबन्धनबद्धः चारकनिरोधबन्धनषद्धः, तादृशः पुमान् पराधीनपराक्रमः सन् बुभुक्षानिरोधं कृष्णादुःखं ब्रह्मचर्यकृच्छ भूशयनकष्टं मधारणं परितापादिका सहमान: सहतेच्छारहितः सन् दीपत् कर्म निर्जरयति सा अकामनिर्जरा इत्युच्यते । बालानां मिध्यादृष्टितापससान्यासिकपाशुपत परित्राजके कदण्ड५ ण्डिपरमहंसादीनां तपःकायक्लेशादिलक्षणं निकृतिबहुलत्रतधारणश्च बालतप उच्यते । सरागसंयमश्च संयमासंयमश्र अकामनिर्जरा च बालतपश्च सरागसंयम संयमासंयमाकामनिर्जरानातपांसि । देवेषु चतुर्णिकायेषु भवं यदायुस्तदेवं तस्य देवस्य । एतानि चत्वारि कर्माणि देवायुरात्रवकारणानि भवन्ति ।
अथ 'किमेतान्येव देवायुरास्रवाः भवन्ति, उताहोऽन्यदपि किमपि देवायुरात्रवनिमित्तं १० वर्तते न चा' इति प्रश्ने सूत्रमिदमाहु:---
२२६
सम्यक्त्वञ्च ॥ २१ ॥
सम्यक्त्वं तत्त्वश्रद्धानलक्षणं देवायुरात्रवकारणं भवति । किं भवनवास्यादिष्वपि देवेषु सम्यक्त्ववान् उत्पद्यते ? नैवम् यद्यपि सम्यक्त्वमिति देवायुरात्रवकारणमिति अविशेषेणोकं तथापि सम्यक्त्ववान् पुमान् सौधर्मादिविशेषस्वर्गदेवेषु उत्पद्यते न तु २५ भावनादिपु अभ्यत्र पूर्वायुष्कान् । एतदपि कस्मात् ? पृथग्योग्यात्, अन्यथा 'सम्यक्स्त्रसरागसंयम संयमानं यम । कामनिर्जरावालनपांसि देवस्य' इति सूत्रं कुर्यात् । यदा तु सम्यक्त्वहीनः पुमान् भवति तदा सरागसंयमादिमण्डिनाऽपि भवनवासित्रयं सौधर्मादिकञ्च यथागमम् उभयमपि प्राप्नोति ।
अथ नामकर्मास्रवसूचनार्थं सूत्रत्रयं मनसि श्रुत्वा तदाच अशुभनामकर्मा सूचनार्थ २० सूत्रमिदमाद्दुः
यांगवक्रता विसंवादनञ्चाशुभस्य नाम्नः ॥ २२ ॥
कायवाङ्मनःकर्म योगः त्रिविधः, योगस्य वक्रता कौटिल्यं योगयकता कायेनान्यत् करोति वचसाऽन्यद् ब्रवीति मनसा न्यचिन्तयति एवंविना योगवकता । अन्यथास्थितेषु पदार्थेषु परेषामन्यथाकथनं विसंवादन मुख्यत । ननु योगवकताविसंवादनयोरर्थ भेदः कोऽपि २५ न वर्तते, तेन योगवकता एक वक्तव्या किं विसंवादनग्रहणेन ? इत्याह- साधूकं भवता : या आत्मगता वर्तत एव । तस्यां सत्यां परगतं विसंवादनम् तत्किमिति चेत् ? कश्चि त्पुमान् अभ्युदयनिःश्रेयसार्थासु क्रियासु सम्यक् स्वयं वर्तते तं तत्र वर्तमानमन्यं पुमांसम् अन्यः कोऽपि विपरीतकायवाङ्मनोभिः प्रयोजयति विसंवादर्यात मिध्याप्रेरयति - 'देववश, त्वमेवं मा कार्षीः, इदं कार्यं त्वमेवं कुरु इत्येवं परप्रेरणं विसंवादनमुच्यते । तेन योगाय ३० विसंबादनस्य च महान् भेदो वर्तते । एतदुभयमपि अशुभनामकर्मण आसवकारणं भवति ।
१ विरो-आ०, ब० ज० २ तदपि आ०, ब० ज० । ३ -हुराचार्याः आ०, ब०, जे० । ४ तस्यां तस्यां at |