________________
मार्गदर्शक :- आचार्य श्री सविधिसागर जी महाराज
६।१४
षष्ठोऽध्यायः ये पुरुषा वर्तन्ते ते सर्वेऽपि असुरा भविष्यन्ति इत्यादिकं गुणवति महति केलिप्रणीते धर्मेऽसद्भूतदोपोद्भवनम् अविद्यमानदोषकथनं धर्मस्यावर्णवादः । देवाः किल मांसोपसेवाप्रियाः सदर्थं तदुचनविधातार उर्वन्तरिक्षं लभन्ते इत्यादिको देवावर्णवादः। एतत्सर्वमदोषदोषोद्भवनं सम्यक्त्वमोहास्त्रत्रकारणं वेदितव्यम ।
अथ चरित्रमोहात्रवप्रकारप्रतिपादनार्थ समय॑ते सूत्रमेतत् -
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्थ ॥ १४ ॥ कषन्ति हिंसन्ति सम्यक्त्यादीनिति कषायाः कषायाणामुदयः कषायफलजननरूपः कषायोदयस्तस्मात्कषायोदयात् तीव्रपरिणामः अत्युत्कटमनरकारः चारित्रमोहस्य चारित्रावरणकर्मण आस्रयो भवति । ते कषाया द्विप्रकाराः कषायाः अकषायाश्च । तत्र कषायवेदनीयस्य आस्रवः परेषामात्मनश्च कषायोत्पादन व्रतशीलसंयुक्तयतिजनचारित्रदूषणप्रदानं १० धर्मध्वंसनं धर्मान्तरायकरणं देशसंयत्तगुणशीलसन्त्याजनं मात्सर्यादिना विरक्तचित्तानां विभ्रमोत्पादनम् आर्तरौद्रजनकलिङ्गत्रतादिधारणं कषायवेदनीयस्यानवा भवन्ति। अकपायवेदनीयं नवप्रकारम् -हास्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंनपुंसकवेदभेदात् । तत्र सर्मजनोपहसनं दीनजनानामतिहसनं कन्दर्पहसनं बहुप्रलपनम् उपहसनशीलतादिक हास्यवेदनीयस्यालवा भवन्ति । नानाप्रकारक्रीडनतत्परत्वं विचित्रक्रीड नभायो देशाद्य- १५ नौत्सुक्यप्रीतिजननादिकं प्रतशीलादिष्यचिरित्येयमादिकं रतिवेदनीयस्याम्म्रया भवन्ति । परेषामरतेराधिर्भवनं परेषां रतेविनाशनं पापशीलजनानां संसर्गादिकं पापक्रियाप्रोत्साहनं चेत्यादयः अरतिवेदनीयस्य आस्रवा भवन्ति । आत्मनः शोकोत्पादनं परेषां शोककरणं शोकप्लुतानां जनानामभिनन्दनञ्चत्यादयः शोकवेदनीयस्यास्रया भवन्ति । स्वयं भये परिणमनं परेषां भयोत्पादनं निर्दयत्वं त्रासनादिकं चेत्यादयो भयवेदनीयस्यास्रथा २० भवन्ति । पुण्यक्रियाचारजुगुप्सनं परपरिबादशीलत्वं चेत्यादयः जुगु सावेदनीयस्यावा भवन्ति । पराङ्गनागमनं स्वरूपधारित्वम् असत्याभिधानं परवञ्चनपरत्वं परच्छिद्रप्रेक्षित्वं बृद्धरागत्यं चेत्यादयः स्त्रीवेदनीयस्यावा भवन्ति । अल्पकोपनम् अजिह्मवृत्तिरगर्वत्वं लोलाङ्गनासमवायाल्परागित्वम् अनीपत्वं स्नाने गन्धद्रव्ये सजि आभरणादौ च रागवस्तुनि अनादरः स्वदारसन्तोषः परदारपरिहरणं चेत्यादयः पुंवेदनीयस्य आम्रया भवन्ति । २५ प्रचुरकषायस्पं गुह्यन्द्रियविनाशनं पराङ्गनापमानावस्कन्दनं स्त्रीपुरुपाना व्यसनित्वं प्रतशीलादिधारिपुरुषप्रमथनं तीव्ररागश्चेत्यादयो नपुंसकवेदनीयस्यानवा भवन्ति ।
-
-
१ -क्रीडनं भावोद्देशा -म० । २ परिभ्रमनं आ., 4, ज.। ३ परवृद्ध-भा०, १०, ज०४ -रागत्व Te, ०,०।