________________
तस्यार्थवृत्त
गावोक्तलक्षणदशप्राणवियोगकरणमित्यर्थः । परिदेव्यते परिदेवनं सकलेशपरिणामत्रिहिताबम्वनं स्वपरोपकाराकानालिङ्गम् अनुकम्पा भूयिष्ठं रोदनमित्यर्थः । दुःखं च शोकश्च तापश्चामार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज क्रन्दनं च आत्मा च परश्व उभयश्च आत्मपरोभयास्तेषु विन्तीति आत्मपरोभयस्थानि । एतानि पट् कर्माणि कोपाचा५. बेशवशात् आत्मस्थानि परस्थानि उभयस्थानि च असद्वेयस्य दुःखरूपस्य कर्मणः आस्रवनिमित्तानि भवन्तीति वेदितव्यम् । ननु शोकादयः पञ्चापि दुःखमेव तेन 'दुःखमात्मपरीभयस्थमसद्वेद्यस्य' इति सूत्रं क्रियतां किं शोकादिग्रहणेन ? इत्याह- साधुक्तं भवता यद्यपि शोकादयो दुःखमेव वर्तन्ते, तथापि कतिपयविशेषकथनेन दुःखजातेरनुविधानं विधीयते अनुकरणमुच्यते इत्यर्थः । यथा गौरित्यभिहिते अनिर्ज्ञाते विशेषे सति गोविशेषकथनार्थ १० खण्डमुण्डशुक्लकृष्णाद्युपादानं विधीयते तथा दुःखविषयाश्च विशेषा असंख्येयलोकसम्भवा अपि कतिपया अत्र निर्दिश्यन्ते तद्विवेकप्रतिपत्त्यर्थमित्यर्थः ।
२
२२०
[६/११
अत्र किचि विधीयते चर्चनम् - चेद्र दुःखादीन्यात्मपरोभयस्थान्यसद्वे द्यास्वकारणानि वर्तन्ते तहि आई तैः केशोत्पादनम् उपवासादिप्रदानम् आतापनयोगोपदेशनं सर्वमित्यादिकमादुःखकारणमेवास्थीयते प्रतिज्ञायते भवद्भिः तर्हि आत्मपरोभयान् प्रति किमित्युप १५ दिश्यते ? साधूक्तं भवता अन्तरङ्गकोधावेशपूर्वकाणि दुःखशोकादीनि असावकारणानि भवन्ति क्रोधाद्यावेशाभावान्न भवन्ति विशेषोक्तं त्वाम् । यथा कश्चिद्वैद्यः परम करुणाश्वित्तस्य माया मिथ्यादिनिदानशल्यरहितस्य संयमिनो सुनेरुपरि गण्डं पिटकं विस्फोट शस्त्रेण पादयति तच्छस्त्रपातनं यद्यपि दुःखहेतुरपि वर्त्तते तथापि भिषग्वरस्य बाह्यनिमित्तमात्रादेव कोपाचावेशं विना पापबन्धो न भवति, तथा संसारसम्बन्धिमहादुःखाद्भीतस्य मुनेः २० दु:खनिवृत्त्युपायं प्रति सावधान चित्तस्य शास्त्रोके कर्माणि प्रवर्तमानस्य सकलेशपरिणामरहितत्वात् केशोत्गटनोपवासादिदानदुःखकारणोपदेशेऽपि पापबन्धो न भवति । तथा चोक्तम्"" न दुःखं न सुखं यद्वद्वेतुष्टश्चिकित्सिते ।
६
चिकित्सायां तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥ १ ॥ न दुःखं न सुखं तद्वद्धेतुमक्षस्य साधने ।
मोक्षोपाये तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥ २ ॥ [ ]
तस्य लोकद्वयस्य व्याख्यानम् - यथा चिकित्सिते रोगचिकित्साकरणे हेतुः शस्त्रादिकः स्वयं दुःखं न भवति सुखं च न भवति कस्मादचेतनत्वादित्यर्थः चिकित्सायां तु प्रतीकारे प्रवृत्तस्य वैवस्य दुःखम् अथवा सुखं स्वादेव । कथम् ? यदि वैद्यः क्रोधादिना शस्त्रेण
१- करका अ०म० ज० । २ विविधविषयस् च अ-आ०, ब० ज० । ३ तवान् य - आर, ब० ज० । ४ करुणानिचितस्य आ०, ब० ज० । ५टकं आ०, ब० ज० १ ६ - देशो आ०, ब० ज०७ उद्धृतौ इमौ स० स० ६।११ ।