________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
२१८
तत्वार्थवृत्तौ
[ ६।१०
परमिति गृहीतम् । तत्र निर्वर्तनाधिकरणं द्विभेद यदुक्तं तत्किम ? मूलगुणभिर्वर्तनाधिकरणम्, उत्तरगुणनिर्वर्तनाधिकरणं चेति निर्वर्तना द्विभेदा । तत्र भूलगुणनिर्वर्तनाधिकरणं पञ्चभेदम्—–शरीरं वाक् मनः प्राणाः अपानाश्चेति । उत्तरगुणनिर्वर्तनाधिकरणं काष्ठपाषाणपुस्तकचित्रकर्मादिनिष्पादनं जीवरूपादिनिष्पादनं लेखनश्चेत्यनेकविधम् । निक्षेपश्चतुर्भेदः - अप्र५ त्यवेक्षितनिक्षेपाधिकरणं दुष्प्रतिलेखितनिक्षेपाधिकरणं सहसा निक्षेपाधिकरणम् अनाभोगनिक्षेपाधिकरणं वेति । अनाभोग इति कोऽर्थः ? पुनरनालोकितरूपतया उपकरणादि "स्थापनम् अनाभोग इत्युच्यते । संयोगो द्विभेद:- अनपानसंयोगाधिकरणम् उपकरणसंयोगाधिकरणं वेति । निसर्गस्त्रिभेदः - कार्यनिसर्गाधिकरणं राहू निसर्गाधिकरणं मनोनिसर्गाधिकरणं चेति । एतचतुष्टयम् अजीवमाश्रित्य आत्मन आम्रक उत्पद्यते तेनाऽजीवाधिकरणमुच्यते ।
अथ सामान्यतया कर्मास्त्रच भेद उक्तः, अधुना सर्वकर्मणां विशेषेणास्रवा उच्यन्ते । तंत्रज्ञानावरणदर्शनावरण कर्मणोरात्रवभेदपरिज्ञानार्थं सूत्रमिदमाहुराचार्याःतत्प्रदोष निलव मात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १०॥
१०
सम्यग्ज्ञानस्य सम्यग्दर्शनस्य च सम्यग्ज्ञानसम्यग्दर्शनयुक्तस्य पुरुषस्य वा त्रयाणां मध्ये अन्यतमस्य केनचित्पुरुषेण प्रशंसा विहिता, तां प्रशंसामाकर्ण्य अन्यः कोऽपि पुमान् पैशुन्य१५ दूषितः स्वयमपि ज्ञानदर्शनयोस्तद्युक्त पुरुषस्य वा प्रशंसां न करोति श्लाघनं न व्याहरति 'कत्थनं नोचारयते तदन्तः पैशुन्यम्, अन्तर्दृष्टत्वं प्रदोष उच्यते । यत् किमपि कारणं मनसि धृत्वा विद्यमानेऽपि ज्ञानाद एतदहं न वेद्मि एतत्पुस्तकादिकमस्मत्पार्श्वे न वर्तते इत्यादि ज्ञानस्य • यदलपनं विद्यमानेऽपि नास्तिकथनं निह्नष उच्यते । आत्मसदभ्यस्तमपि चानं दातुं योग्यमपि दानयोग्यायापि पुंसे केनापि हेतुना यन्न दीयते तन्मात्सर्यमुच्यते। विद्यमानस्य प्रबन्धेन प्रवर्त२० मानस्य मत्यादिज्ञानस्य विच्छेदविधानम् अन्तराय उच्यते । कायेन वचनेन च सतो ज्ञानस्य विनयप्रकाशनगुणकीर्तनादेरकरणमासादनमुच्यते । युक्तमपि ज्ञानं वर्तते तस्य युक्तस्य ज्ञानस्य अयुक्तमिदमशानमिति दूषणप्रदानम् उपघात उच्यते, सम्यग्ज्ञानविनाशाभिप्राय इत्यर्थः । ननु आसानमेव उपघातः कथ्यते, पुनरुपघातग्रहणं व्यर्थमिदम् युक्तमुक्तं भवता ; विद्यमानस्य ज्ञानस्य यद्विनयप्रकाश नगुणकीर्तनादेरकरणं तदासादनम् उपघातस्तु ज्ञानस्य अज्ञानकथनं २५ ज्ञाननाशाभिप्रायो वर्तते, कथमनयोर्महान् भेदो नास्ति ? प्रदोषश्च नितुरंश्च मात्सर्य श् अन्तरायश्च आसादन उपघातश्च प्रदोषनिह्नरमात्सर्यान्तर (यासाइनोपघाताः । तयोः ज्ञानदर्शनयोः । एते षट् पदार्थाः ज्ञानदर्शनावरणयोः ज्ञानावरणदर्शनायरणयोरा वा भवन्ति आस्रवकारणं भवन्ति । ज्ञानं च दर्शनं च ज्ञानदर्शने साकारनिराकाररूपे । अत्र विशेषज्ञापनं ज्ञानम्, सत्ताबलोकनमात्रं दर्शनम्, तयोरावरणे ज्ञानदर्शनावरणे तयोः ज्ञानदर्शनावरणयोः ।
i
1
1
१ - स्थापितमना ० ०
० ज० । ४ स्य अप- अ० ०, ० ।
० १ २ कथनं नो भा०, ब० न० । ३ करणं भा०,