________________
६९ ]
षष्ठोऽध्यायः
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
कृतकारितानुमताः । चत्वारः कषायाः । एतेषां गणनाया अभ्यावृत्तिः पुनःपुनर्गणना' सुमत्ययेन सूच्यते । एकमेकं प्रत्येकशः इति वीप्सावचनम् । एकैकं प्रति व्यादीन् प्रापयेदित्यर्थः । तथाहि — क्रोधकृतकाय संरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधका रितकाय संरम्भः, मानकारितकाय संरम्भः, मायाका रितकायसंरम्भः, लोभकातिकायसंरम्भः क्रोधानुमतकाय संरम्भः, मानानुमतकाय संरम्भः, मायानुमतकायसंरम्भः ५ लोभानुमतका संरम्भइति द्वादशप्रकार: कायसंरम्भा भवति । एवं वाक्योगो द्वादशप्रकारः क्रोधकृतबाकूसंरम्भः, मानकृतवाकसंरम्भः माचाकृतवाक्क संरम्भः, लोभ कृतवाकसंरम्भः, क्रोधकारितासंरम्भः मानकारितवाक्संरम्भः, मायाका रितवाक्संरम्भः लोभकारितवाक्संरम्भः क्रोधानुमता संरम्भः, मानानुमतवाक्संरम्भः, मायानुमतवाक्संरम्भः, लोभानुमतवाक्संरम्भ इति द्वादशप्रकारो वाक्संरम्भः । क्रोधकृतमनः संरम्भः, मानकृतमनः संरम्भः १० मायाकृतमनःसंरम्भः, लोभकृतमनः संरम्भः क्रोधकारितमनः संरम्भः, मान कारितमनः संरम्भः, मायाकारितमनःसंरम्भः, लोभकारितमनः संरम्भः क्रोधानुमतमनः संरम्भः, मानानुमतमनः संरम्भः, मायानुमतमनः संरम्भः, लोभानुमतमनः संरम्भः इति द्वादशमकारो मन:संरम्भः । एवं षट्त्रिंशत्प्रकारः संरम्भः तथा पत्रिशत्मकारः समारम्भः तथा पत्रिंशत्प्रकार आरम्भः एवमष्टोत्तरशतप्रकारः जीवाधिकरणास्रवो भवति । चकारः किमर्थम् ? १२ अनन्तानुबन्ध्यप्रत्याख्यान प्रत्याख्यान सञ्चलनकषाय भेदकृतान्तर्भेदसमुच्चयार्थः ।
२१७
अथाऽजीवाधिकरणभेदपरिज्ञानार्थं सूत्रं सूचयन्ति -
निर्चतर्नानिक्षेप संयोगनिसर्गादिचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥
च
निवर्तते निष्पाद्यते निर्वर्तमा निष्पादना । निक्षिप्यते स्थाप्यते यः स निक्षेपः स्थापना | संयुज्यते मिश्रीक्रियते संयोगः । निःसृज्यते प्रवर्तते निसर्गः प्रवर्तनम् । निवर्तना २० निक्षेपश्च संयोगश्च निसर्गश्च निवर्तनानिक्षेप संयागनिसर्गाः । द्वौ च चत्वारश्च श्रयश्च द्विचतुर्द्वित्रयः ते भेदाः येषां निर्वर्तनानिक्षेप संयोगनिसर्गाणां ते द्विचतुर्द्वित्रिभेदाः । पिपर्ति पूरयति परभागमिति परम् । अस्यायमर्थः - निना विभेदाद्विप्रकारा । निक्षेपरचतुर्भेदः चतुःप्रकारः । संयोगो द्विभेदो द्विप्रकारः । निसर्गस्त्रिभेदः त्रिप्रकारः । एते चत्वारो भेदाः परम् अजीवाधिकरणं भवन्ति । ननु पूर्व सूत्रे आद्यमित्युक्ते जीवाधिकरणं लब्धम्, २५ अजीवाधिकरणन्तु अवशिष्टं स्वयमेव लभ्यते, तेन 'निर्वर्तना निक्षेप संयोगनिसर्गाद्विचतुर्द्वि त्रिभेदाः' इत्येवं सूत्रं क्रियताम् किमनर्थकन परशब्दग्रहणेन ? इत्याह- सत्यमुक्तं भवताः परमित्युक्ते संरम्भादिभ्यो निर्वर्तनादिकचतुष्टयं परमन्यत् भिन्नम् इत्यर्थः, अन्यथा जीवाधिकरणाधिकारात् निर्वर्तनादयश्चत्वारोऽपि जीवपरिणामा भवन्तीति भ्रान्तिरुत्पद्यते, तदर्थ
१ - जनं सुता । २त्याचार्या: आ० म० ज० । ३ करणं ननु आ०, ब०, ज० । २८