________________
तत्वार्थवृत्ती
द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥
1
द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः । गुणेभ्यो निष्कान्ता निर्गता निर्गुणाः । एवं विशेषणद्वयविशिष्टा ये ते गुणा भवन्ति । निर्गुणा इति विशेषणं दु चणुकभ्यणुकादिस्कन्धनिषेधार्थम् तेन स्कन्धाश्रया गुणा गुणा नोच्यन्ते । कस्मात् ? कारणभूतपरमाणुद्रव्याश्रयत्वात् । ५ तस्मात् कारणात् निर्गुणा इति विशेषणात् स्कन्धगुणाः गुणा न भवन्ति पर्यायाश्रयत्वान् । ननु घटादिपर्यायाश्रिताः संस्थानादयो ये गुणा वर्तन्ते तेऽपि द्रव्याश्रया निर्गुणाश्च वर्तन्ते, तेामपि संस्थानादीनां गुणत्वमास्कन्दति द्रव्याश्रयत्वात् यतो घटपटादयोऽपि द्रव्याणी कयन्ते । साध्वभाणि भवताः ये नित्यं द्रव्यमाश्रित्य वर्तन्ते त एष गुणा भषन्ति न तु पर्यायाश्रया गुणा भवन्ति, पर्यायाश्रिता गुणाः कादाचित्काः कदाचित् भवाः वर्तन्ते इति ।
२१०
१०
अडसर्वेत्रवशिन्अ कार्यस्तिस्तथान ज्ञायते स वक्तुमवतारयितुं योग्य इति प्रश्ने अध्यायस्य समाप्तौ सूत्रमिदमुच्यते - तद्भावः परिणामः । अथवा अन्यकार्यसूचनार्थं तद्भावः परिणाम इति सूत्रमुभ्यते । किं तदन्यत् कार्यम् ? केचित् वदन्ति गुणा द्रव्यादर्थान्तरभूताः तत्किमाई तानामभीष्टम् ? नाभीष्टम् । यद्यपि व्यपदेशादिभेद हेतुना द्रव्यात् कथञ्चित् भिन्नाः वर्तन्ते -- अर्थान्तरभूताः सन्ति गुणाः, तथापि व्याव्यतिरेकाद् १५ द्रव्यमयत्वाद् द्रव्यपरिणामाच्च अर्थान्तरभूता गुणा न भवन्ति । एवं चेत सः कः परिणामः स एवोच्यतामिति प्रश्ने परिणामपरिज्ञानार्थं सूत्रमिदमुच्यते
तद्भावः परिणामः || ४२ ॥
तेषां धर्मादीनां द्रव्याणां येन स्वरूपेण भवनं भावः तद्भावः । तद्भावः कोऽर्थः १ तेषां धर्मादीनां द्रव्याणां तत्त्वं स्वरूपं परिणाम इत्युच्यते । स परिणामः अनादिः सादिश्च २० भवति । गत्युपग्रहादिर्घ मदीनाम् अनादिः परिणामः । स अनादिपरिणामः सामान्यापेक्षया भवति । स एव सामान्यः परिणामः विशेषापेक्षया पर्यायरूपः सादिश्व भवति । तेनायमर्थःगुणाञ्च पर्यायाश्च द्रव्याणां परिणाम इति सिद्धः ॥ ४२ ॥
इति सूरश्रीश्रुतसागरविरचितायां तात्पर्य संज्ञायां तत्त्वार्थवृत्तौ पक्षमः पादः समाप्तः ।
[ १/४१-४२
1
१ वः तन्द्रावति को य० । वः की भ० ज० ५०२ इत्यनवद्य गद्यपद्यविद्याविनोदित प्रमोद पीयूषपान पावनमतिसमाजरत्नराजमतिसागरयतिर । जरा जितार्थन समर्थेन तर्कव्याकरणच्छन्दोऽलङ्कारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीमद्देवेन्द्र कीर्ति भडारकप्रशिष्येण शिष्येण व सकलविद्वज्जनविद्दितचरणसेवस्य श्रीविद्यानन्ददेवस्य सञ्छर्दितमिध्या मतदुर्गरेण श्रुतसागरेण सूरिणा विचतायां श्लोकवातिंकराजनार्तिक सर्वार्थ सिद्धि न्यायकुमुदचन्द्रोदय प्रमेय कमल सार्तण्डप्रचण्डससी प्रमुखग्रन्यसन्दर्भनिर्भरावलोकनबुद्धि विराजितायां तत्वार्थटीकायां पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ ० ० ॥