________________
१५६ तत्त्वार्थवृत्ती
[५।२४ व्यञ्जको लवणरस इति कारणान् पञ्चस्वपि रसेष्वन्तर्भावः । येषु च जलादिषु एको द्वौ त्रयो या गन्धादयः प्रकटी न झायन्ते तत्र स्पर्शसद्भावात् अप्रकटाः सन्तीति निश्चीयते। ननु "रूपिणः पुद्गलाः" [५।५] इत्यत्र सूत्रे पुद्गलानां रूपगुणः प्रोक्तः, रूपगुणाविनाभावि
नश्च रसादयो गुणाः तस्मिन्नेव सूत्रे संगृहीता इति कारणात् पुद्गलानां रूपादिमत्त्वं तेनैव ५ सूत्रेण सिद्धं किंमर्थमिदं सूत्रमनर्थकम ? इत्याह-सत्यम् ; "नित्यावस्थितान्यरूपाणि"
[[४] इत्यस्मिन् सूत्रे धर्माधर्माकाशादीनां नित्यत्वादिनिरूपणे पुद्गलानामपि अरूपत्वप्राप्ती सत्यां तस्याः प्रतिषेधार्थ "रूपिणः पुद्गलाः" इति सूत्र तत्रोक्तम् "स्पर्शरसगन्धवर्णवन्ताः पुद्गलाः" इति तु सूत्रं पुद्गलानां परिपूर्णस्वरूपविशेषपरिमानार्थमुक्तं तेनानर्थक
न भवति । १० अथ पुद्गलानां सम्पूर्णविशेषपरिज्ञाने सञ्जातेऽपि पुद्गलानां विकारपरिज्ञानमवशिष्टं मावर्तते, तदर्थ मन्त्रमिदमोविधिसागर जी महाराज शब्दवन्धसौदम्यस्थौल्यसंस्थानभेदतमश्छायातपोधोतवन्तश्च ॥ २४ ॥
सूत्मस्य भावः सौक्ष्म्यम् , स्थूलस्य भावः स्थौल्यम् । शब्दश्च बन्धश्च सौदम्यं च स्थौल्यं घ संस्थानं च भेदश्च तमश्च छाया च आतपश्च उद्योतश्च शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थान१५ भेदतमश्छायातपोद्योताः, ते विद्यन्ते येषां पुद्गलानां ते शब्दधन्वसौदम्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतयन्तः । एतर्दशभिः पुद्गलविकारः सहिता पुद्गला भवन्ति ।।
तत्र तावच्छन्दस्वरूपं निरूप्यते । शब्दो ट्रिप्रकारः-भाषात्मकोऽभाषात्मकश्चेति । तत्र भाषात्मकोऽपि द्विप्रकार:--साक्षराऽनक्षरभेदान । तन्त्र साक्षरः शब्दः शास्त्रप्रकाशकः
संस्कृताऽसंस्कृतात्मकः आर्यम्लेच्छव्यवहारप्रत्ययः। अनक्षरः शब्दो हीन्द्रियत्रीन्द्रियचतुरि२० न्द्रियपश्चेन्द्रियाणां प्राणिनां ज्ञानातिशयस्वभावकथामप्रत्ययः । ज्ञानातिश वस्तु एकेन्द्रियापेक्षया
ज्ञातव्यः, एकेन्द्रियाणां तु ज्ञानमात्रं वर्तते अतिशयज्ञानं नास्ति अतिशयझानहेत्वभावात् । अतिशयज्ञानवता सर्वज्ञेन एकेन्द्रियाणां स्वरूपं निरूप्यते । स भगवान् परमातिशयज्ञानवान्, अन्यः पुमान् रथ्यापुरुषसदृशः नाममात्रेण सर्वशः हरिहरादिकः ।
अत्र केचित् सर्वक्षस्य अनक्षरात्मक शब्द प्रतिपादयन्ति', "नो वर्णात्मको २५ वनिः" [
] इति वचनात् । तन्न सङ्गच्छते ; अनझरात्मकेन शब्देन अर्थप्रतीतरभावात् । तथा चोक्तम्
"देवकृतो ध्वनिरित्यसदेतद् देवगुणस्य तथा विहतिः स्यात् । साक्षर एव च वर्णसमूहान्नैव विनार्थगतिर्जगति स्यात् ॥" [ ] भाषात्मकः सर्थोऽपि साक्षरानक्षररूप: प्रायोगिक इत्युच्यते पुरुषप्रयोगहेतुत्वात ।
१ प्रकटतया न शा-० । प्रकटज्ञानं शा- भा०, ब० 1 २ -ण प्रो-ता०, व.। ३ –न्ति नष्टयणात्मक शब्दं प्रतिपादयन्ति भा०प०, ज० ।