________________
१९४
तत्वार्थवृत्त
[ ५१२२
निश्चीयते सख्यायते समयादिभिः पर्यायः "मुख्यः कालो निर्णीयते यः सः कालः । “अकर्तरि च कारके संज्ञायाम्" [ का० सू० ४।५।४ ] घन् । मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज,
वर्तन्त स्वयमेव स्वपयोः बाह्योपग्रह विन्ना पवार्थाः, तान् वर्तमानान् पदार्थान ४ अन्यान् प्रयुक्ते या सा वर्तना । धृतेरिनन्तात् कर्मणि भावे वा युट् स्त्रीलिङ्गे वर्तना इदि ५ भवति । वर्तते वर्तना इति कर्मणि विग्रहः । घर्तनं वर्तना इति भावे विग्रहः । अत्र लोकप्रसिद्धो दृष्टान्तः कध्यते- यथा तण्डुलानां विक्लेदनं पचनं पाक उच्यते ते तु तण्डुलाः पन्यमानाः शनैः शनैः ओनत्वेन परिणमन्ति तण्डुलानां स्थूलत्वदर्शनात् समयं समयं प्रति सूक्ष्मः पाको भनतीति निश्चीयते । यदि प्रतिक्षणं तण्डुलानां सूक्ष्मपाको न भवेत् तदा अनु अक्षतोचितस्थूलपाकैस्याभावो भवेत् । एवं सर्वेषां द्रव्याणां स्थूलपर्यायविलोकनात् स्वयमेव वर्तन्दस्वभावत्वेन बाह्य १० निश्चयकालं परमाणुरूपमपेच्य प्रतिक्षणमुत्तरोत्तर सूक्ष्मपर्यायेषु वर्तनं परिणमनं यद् भवति सा वर्तना निर्णीयते । चेत् द्रव्याणां प्रतिसमयं परिणामो नै भवेत् तर्हि द्रव्याणां स्थूल पर्यायोऽपि न स्यात् तेन सा वर्तना अणुरूपस्य मुख्यकालस्य निमित्तभूतेति कारणात् वर्तनया कृत्वां मुख्यकालोऽणुरूपोऽस्तीति निश्चीयते । वर्तनालक्षणो निश्चयकालस्योपकार इत्यायात्तम् । ननु यदि निश्चयकाल पर्यायाणां वर्तयिता वर्तते तर्हि स कालः क्रियावान् सञ्जातः निष्क्रियः १५ कथमुक्तः ? सत्यम् निमित्तमात्रेऽपि वस्तुनि हेतुकर्तृत्वं दृश्यते यथा भिक्षा वासयते कारीषोऽनिरध्यापयति इति हेतुकर्तृवाव्यपदेशो भिक्षाग्न्योर्दश्यते, तथा कालस्यापि हेतुकर्तृत्त्रमस्ति निष्क्रियत्वं च न विनश्यति कालस्य पर्यायोत्पादिका वर्तना तावत् विज्ञाता ।
इदानीं परिणामः कालस्योपकारः कथ्यते-- द्रव्यस्य स्वभावान्तरनिवृत्तिः स्त्रभावान्तरोलविश्व परिस्पन्दात्मकः पर्यायः परिणाम उच्यते । स परिणामः जोवस्य क्रोधमानमायालोभा२० दिकः । पुंद्गलस्य परिणामः वर्णगन्धरसस्पर्शादिकः । धर्मस्याधर्मस्य आकाशस्य व अगुरुलघुगुणवृद्धिहानिचिद्दितः परिणाम वेदितव्यः । विज्ञातस्तावत् पर्यायरूपः परिणामः कालस्योपकारः । sarat farmers aोपकारः कथ्यते - परिस्पन्दात्मकः चलनरूपः पर्यायः क्रिया कथ्यते । सा क्रिया द्विप्रकारा - प्रायोगिकी, वैनसिकी च । तत्र प्रायोगिकी क्रिया इलमुशलशकटादीनां भवति । वैश्रसिकी स्वाभाविकी मेघविद्युदादीनां भवति । सा द्विवापि २५ क्रिया कालव्योपकारः कथ्यते । विज्ञाता तावत् क्रिया ।
इदानीं परत्वापरत्वयोरवसरः । परत्वापरत्वे क्षेत्रकृते [ कालकृते ] व, कालोपकारप्रकरणात् सूत्रे कालकृते गृह्येते । तथाहि — अतिसमीपदेशवर्तिनि अतिवृद्ध व्रतादिगुणहीने चाण्डाले परत्वारो वर्तते, दूरदेशवर्तिनि गर्भरूपे व्रतादिगुणसहिते च अपरत्वव्यवहारो
१ मुख्यका भा०, ब० ज० | २ वर्तते ताव० । ३ व पर्या- ६० अ० ज० । ४ अन्य प्रयुक्तता, आ०, ब०, ब० । ५ स्यादभी भ- ० ०, ० ६ न ता०, ० । द्रश्य परिणाम उच्यते पुद्गलस्य भा०, ब० ज० । पुलस्य परिणाम उच्यते वर्ण- ब० । ८ या द्वि- आ०, ब०, ० ९ - द्वे लक्षणकृते च भा
ज०, ब० । स्त्रे क्षणकृतं च ।