________________
५।२१-२२]
पञ्चमोऽध्यायः परस्परोपग्रहो जीवानाम् ॥ २१ ॥ परस्परः अन्योन्यसम्बन्धी, यामार्यम्भाचविपासासगरमहा जीवानां प्राणिनाम् अन्योन्यस्य कार्यकरणम् उपकारो भवति । यथा 'बापः पुत्रस्य पीपणादिक करोति, पुत्रस्तु बप्तुरनुकूलतया देवार्चनादिकं कारयन् श्रीखण्डघर्पणादिकं करोति । तथा, यथा आचार्यः इहलोकपरलोकसौख्यदायकमुपदेशं दर्शयति तदुपदेशकृतक्रियानुष्ठानं कारयति, ५ शिष्यस्तु गुर्वानुकूल्यवृत्त्या तत्पादमर्दननमस्कारविधानगुणस्तव नाभीष्टवस्तुसमर्पणादिकमुप कारं करोति । तथा, यथा राजा किङ्करेभ्यो धनादिक ददाति, भृत्यास्तु स्वामिने हित प्रतिपादयन्ति अहितप्रतिषेधं च कुर्वन्ति, स्वामिनं च पृष्ठतः कृत्वा स्वयमले भूत्वा स्वामिशत्रु. भङ्गाय युद्ध्यन्ते । उपमहाधिकारे सत्यपि पुनरुपमहग्रहणं जीवानां परस्परं सुखदुःखजीवितमरणकरणोपकारसूचनार्थम् । तेन यथा सुखादिकं चतुष्टयं पुद्गलोपकारः तथा जीवाना- १० मप्युपकारः । यो जीबो यस्य जीवस्य सुस्खं करोति स जीवस्तं जीवं बहुबारान् सुखयत्ति, यो दुःखयति स तं बहुवारान दुःखयति, यो जीवयति स तं बढुवारान् जीवति, यो मारयति स तं बहुधारान् मारयति । तथा चाह योगीन्द्रो भगवान्--
"मारिवि चूरिवि जीवडा जं तुहुँ दुक्खु कसैसि । तं तह पासि अणंतगुण अक्से जीव लहोसि ।। १ ।। मारिवि जीवहँ लक्खडा जं तुहुँ पावकरीसि । पुत्तकलत्तहँ कारणेण तं तुहुँ एक्कु सहीसि ॥२॥"
[परमात्मप्र० गा० १२५, १२६ अथ यदि सत्तारूपेण वस्तुना उपकारः क्रियते इति विद्यमानस्य यस्तुनाऽनुमितिर्विधी. यते भवद्भिः, तर्हि कालद्रव्यमपि सत्तारूपेण वर्तते कस्तस्योपकार " इत्याहुः
वर्तना परिणामः क्रिया परत्वापरत्वे च कालस्य ॥ २२ ॥
वर्तना इत्येक पदम् , परिणाम इति द्वितीयं पदम्, क्रियेति मृतीयं पदम , परत्यापरत्वे इति चतुर्थ पदम् , व इति पश्चमम् , कालस्येति पष्टं पदमिति पट्पदं सूत्रमिदम् । कैचिन् चतुष्पदश्च दृश्यते, तदा 'वर्तनापरिणामक्रियाः' इत्येक परत्वापरपरत्वे इति द्वितीय पदम , च इति तृतीयम्, कालस्येति चतुर्थम् । तदा ईदृग्विधः समासः बर्तना र परिणामश्च २५ क्रिया च वर्तनापरिणामक्रियाः । परत्यञ्चापरत्वं च परवापरत्वे इतरेतरद्धन्दः । कल्यते ज्ञायते
१ विता। २ गुरोरनुकूल-मा०,०, ज| गुर्वानुकल-प.। ३ -* चतुसा० ज०। ४ मारयित्वा जीवयित्वा जीवान यवं दुःखं करिष्यसि । तत्तदपेक्षया भनन्तगुणमत्रस्य. मेव बीच लभसे || मारयित्वा जीवानां लक्षाणि यवं पापं करिष्यप्ति । पुत्रकलत्राणां कारणेन तत्वमेकः सहिप्यसे ।। ५ इत्यर्थः बस इत्याह वा. । ६ -मकि भा., ०१७ सत्रार्थसिद्धितत्त्वार्थवार्ति कादौ ।
२५