________________
{ ५९१९
१९०
तत्त्वार्थवृत्ती भवति । कस्मात् ? सवानियकाशसमसम्भवम् सुसिस्थागर बीकानयाधारण लक्षणमस्त्येव । कस्मात् ? सर्वेषां पदार्थानां साधारणावगाहनकारणत्वात् । ननु अलोकाकाशस्य अवगाहनदानाभाषान् स्वलक्षणपन्यवनान् आकाशस्याभाषः; सत्यम् । स्वभावस्य अपरित्यागात् कथमाकाशस्याऽभावः । अथेदानी पुद्गलानामुपकारो निरूप्यते--
शरीरथाइमन:प्राणापानाः पुद्गलानाम् ॥१९॥ शीर्यन्ते विघटन्ते शरीराणि, उच्यते वाक् , मन्यते मनः, प्राणिति जीवति येन जीषः स प्राणः, २अपअनिति हर्षेण जीवति विकृत्या वा जीवति येन जीयः सः अपनः, कोष्ठात्
बहिनिर्गपछति यः स प्राण उच्छयास इत्यर्थः, बहिर्वायुरभ्यन्तरमायाति यः सः अपानः १० निःश्वासः, प्राणश्च अपानश्च प्राणापानौं। शरीराणि च वाक् च मनश्च प्राणापानौ च
शरीरवाङ्मनःप्राणापानाः । पूर्व पूर्यन्ते पश्चाद् गलन्ति ये ते पुदलास्तेषां पुद्गलानाम् । पुद्गलानां सम्बन्धिनः एते शरीरादयः पञ्च उपकाराः जीवानां भवन्ति ।
तत्र तावत् औदारिकवक्रियिकाहारकतैजसकाम॑णानि शरीराणि पञ्च। तत्र पश्चसु शरीरेषु मध्ये यानि कार्मणानि तानि सूक्ष्माणि अप्रत्यक्षाणि तैरुत्पाद्यन्तेउपचयशरीराणि । १५ उपचयशरीराण्यपि कानिचित् प्रत्यक्षाणि भयन्ति कानिचित् अप्रत्यक्षाणि भवन्ति, तेषां
सर्वेषां शरीराणां कारणं "कर्माणीति वातव्यम् । आत्मपरिणाम निमित्तमात्रं प्राप्य पुद्गलाः कर्मतया परिणमन्ते, तस्तु कर्मभिरौदारिकादीनि शरीराणि उत्पद्यन्ते । तेन सर्वाणि शरीराणि पौगलिकानि भवन्ति जीवानामुपकारेषु प्रवर्तन्ते । तथा चौतम्
"जीयकृतं परिणाम निमित्तमात्रं प्रपद्य पुनरन्थे ।
स्वयमेव परिणमन्तेत्र पुद्गलाः कर्मभावेन ॥" [पुरुषार्थसि० श्लो० १२] ननु औदारिकादीनि शरीराणि आहारवन्ति तेषां पौगलिकत्वं सङ्गन्छत एव, कार्मणन्तु शरीरमनाहारकं तत्कथं पौद्गलिकमित्युच्यते ? सत्यम् ; कार्मणमपि शरीरं पौद्गलिकमेव, कर्मविपाकस्य मूर्तिमभिः सम्बन्ध सति उत्पत्तिनिमित्तत्वात् यथा श्रीमादीनां
परिपाकः सलिलादिद्रव्यैः सम्बन्धे सति भवति तथा कार्मणमपि शरीरं सिताकण्टकादि२५ मूर्तिमद्रव्यसम्बन्धे सति विपश्यते बन्धमायाति तेन कार्मणमपि शरीरं पौगलिकमित्युच्यते । कथमन्यथा प्राणवल्लभं पश्यन्त्याः क्रमनीयकामिन्याः कञ्चकस्तुट्यति रोमाञ्चकनुकंवशात् ।
या वाक् पौगलिकी सा द्विप्रकारा-द्रव्यवाक्-भाववाक्प्रभेदात् । धीर्यान्तरायक्षयोपशमे सति मतिज्ञानावरणश्रुतज्ञानाधरणक्षयोपशमे सति च अङ्गोपाङ्गनामकर्मलाभे च सति भाववाक् उत्पद्यते । सापि पुद्गलाश्रयत्वात् पौलिकीत्युच्यते। यदि पूर्वोक्तकर्मपुद्गलक्षयोपशमो
१ -शदानस्या- आ०, ५०, अ.। २. अपनिति भा०, व०, ज०, ३० 1 ३ -ना सभाल, ब., 4०, जा । ४ -न्ते पंचशरीराणि उम- आ., य०,व०। ५ कर्मणीति ता० । कामगीति २०। ६ -गु व- श्र०, ब० । ७ -कवत् मा०, २०, ज.।