SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ १६] पचमोऽध्यायः १८७ संयभागादिषु प्रवृत्तिः कथम् सर्वलोकव्याप्तिर्भवत्येकस्य जीवस्य' इति प्रश्ने सति लोकप्रसिद्धदृष्टान्तेन अल्पप्रदेशव्याप्तिरपि भवतीति प्रतिपादनार्थं सूत्रं स्वामिनः प्राहुः - प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ प्रदिश्यन्ते प्रसारयन्ते सङ्कोच्यन्ते या प्रदेशाः संहरणं सङ्कोचनं संहारः, विसर्पणं प्रसारणं विसर्पः, संहारा विसर्पश्च संहारविसर्पों, प्रदेशानां संहारविसर्पों प्रदेशसंहारविसर्पों ताभ्यां प्रदेशसंहारविसर्पाभ्याम् । अस्यायमर्थः — लोकस्य असख्येयभागादिषु जीवस्यावगाहः प्रवृत्तिर्भवति । कस्मात् ? प्रदेशानां संहारात् सङ्कोचात् अल्पक्षेत्रे जीवस्तिष्ठति, प्रदेशानां विसत् प्रसरणात् जीयो बहुषु भागेषु तिष्ठति । एवं व्याख्याने सति प्रदेशसंहारविसर्पाभ्यामित्यत्र पञ्चमीद्विवचनं घटते । करणापेक्षया तृतीयाद्रिवचनं च घटते, तत्र प्रदेशसंहारेण प्रदेशविसर्पेण चेति व्याख्यातव्यम् । प्रदेशानां संहारः कथं विसर्पश्च कथं भवति ? प्रदीप- १० बत् यथा प्रदीपस्य प्रकाशः निरावरणाकाशप्रदेशे अनवधृतप्रकाशपरिमाणं भवति स एव दीपः यदा वर्द्धमानेन - शरावेण अत्रियते तदा तस्य प्रदीपप्रकाशस्य शरायमात्रक्षेत्रे प्रवृत्तिभवति । यदा तु मामिकार्शष्ठ कक पिकषार्य स्त्रीलिब्रिपादारावक्षेत्रात् कवित् बहुतरक्षेत्रे प्रदीपप्रकाशप्रवृत्तिः भवति । यदा तु स एवं प्रदीपः कुण्डेनाश्रियते तदा मानिकाक्षेत्रात् किचित् बहुतरक्षेत्रे प्रदीपप्रकाशप्रवृत्तिर्भवति । यदा स एव प्रदीपः अपवर- १५ कादिनाप्रियते तदा तस्मादपि अधिकप्रकाशो भवति । एवं जीयोऽपि यद्यपि अमूर्तस्वभात्रो वर्तते तथापि अनादिसम्बन्ध क्यान कथञ्जिन् मूर्ती भवन् कार्माणिशरीरवशात् अणुशरीरं मच्छरीरच्चाधितिष्ठन् तच्छरीरवशात् प्रदेशानां संहरणं विसर्पणं च करोति । तावन्प्रमाणतायाम् 'सत्याम् असङ्ख्येयभागादिषु प्रदेशप्रवृत्ति वस्योपपद्यते । ननु धर्मादीनां परस्परप्रदेशानुप्रवेशो यदा भवति तदा सङ्करः सञ्जायते व्यतिकरो भवति । कोऽर्थः ? एकत्वं प्राप्नोति ; २० सत्यम् ; धर्मादीनामन्योन्यमत्यन्तश्ले षेऽपि सति यामिश्रतायामपि सत्यां धर्मादीनि द्रव्याणि निजनिजस्वभावं न मुञ्चन्ति - धर्मो मिलितोऽपि गतिं ददाति, अधर्मो मिलितोऽपि स्थितिं ददाति, आकाशों मिलितोऽपि अवकाशं ददाति इत्यादि स्वभावस्यापरिहारो वेदतरूयः । तथा चाभाणि "अणोरणं पविसंता देता अवकासमण्णमण्णस्स ! मिल्लता व य णिच्चं सगसम्भावं ण विजयंति ॥" [ पंचास्ति गा० ७ ] अथ कस्तेषां स्वभाव इति प्रश्ने धम्र्म्माधर्मयोः स्वभावस्तावदुष्यते अ०, ३ न्यस्य प्र- श्र०, १ कजी व २ सूत्रमिदं स्वा- भ० ज० म० । ५० । ४ दृढं फणिकस्थळी कयावा आ अ० ज० ० १ ५ एव दोषः आ० ज०म० १ ६ सत्यम् आ०, ब० ज० । ८ - सति भ० ज०, ब० । ९ अन्योन्यं प्रविशन्तः ददन्तोऽवकाशभन्योन्यस्य । मिलन्तोऽपि च नित्यं स्वकस्वभाव न विजइन्ति ॥ २५
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy