________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
तत्त्वार्थवृत्ती
[५॥११-१२
सम्मान्ति । कस्मात् ? सूक्ष्मपरिणामावगाहनशक्तियोगात् । पुद्गलपरमाणू नामवगाइने या शक्तिर्वतते सा अव्याहता वर्तते, तां शक्ति कोऽपि व्याहन्तुं न शक्नोति । अतः कारणात एकस्मिन्नाकाशप्रदेशे अनन्तानन्तानां परमाणूनामवस्थानं न विरुद्धम् ।
अथ 'सङ्ख्येयाऽसत्येयाश्च पुदलानाम्' इति सूत्रे विशेषरहिताः पुद्रलाः प्रोक्का, ५ तेन अविशेषत्रचन्तया एकस्यापि परमाणोः तादृशाः 'प्रदेशा भविष्यन्तीत्याशङ्कायां तनिषेधार्थ सूत्रमिदमुच्यते
नाणाः ॥ ११ ॥ ___अणोः एकस्य परमाणोः 'प्रदेशाः न भवन्ति' इति वाक्यशेषः। कुतो न भवन्तीति
चेत् ? अणोः एकप्रदेशमानत्वान् । यथा एकाकाशप्रदेशस्य प्रदेशभेदाभावात् अप्रदेशत्वं १० वर्तते, तथा एकस्य अविभागस्याणोरपि अप्रदेशत्वं ज्ञातव्यमिति । अतः एकस्य परमाणोर्भेदः कतु केनापि न शक्यते ।
"परमाणोः परं नाल्पं नभसो न परं महत् ।" [ ] इति वचनात् अणोरध्यणीयानपरो न वर्तते कथमणोः प्रदेशाः भियन्ते ? अथ धर्माधर्मजीवपुगलादीनामधिकरणपरिज्ञानार्थ सूत्रमिदमुच्यते
लोकाकाशेऽवगाहः ॥ १२॥ लोक्यन्ते विलोक्यन्ते धर्मादयः पदार्था यस्मिन्निति लोकः, लोकस्य सम्बन्धी आकाशो लोकाकाशः तस्मिन् लोकाकाशे । लोक इति "करणाधिकरणयोश्च" [ कात०४५९५] इत्यनेन अधिकरण घम् । अवगाहनमवगाहः अवकाश इत्यर्थः। धर्माधर्मजीवपुद्गल
कालद्रव्याणां लोकाकाशे अवगाहोऽवकाशो भवति, अलोकाकाशे धर्मादीनां द्रव्याणां प्रवेशो २० न भवतीत्यर्थः । यदि धर्माधर्मजीवपुगलकालानां लोकाकाशमधिकरणमाधारो वर्तते ताई
आकाशस्य किमधिकरणमिति चेत् ? तन्न; आकाशस्याधिकरणमन्यन्न वर्तते, आकाशः। स्वप्रतिष्ठो वर्तते । यद्याकाशः स्वप्रतिष्ठोऽस्ति तर्हि धर्मादयोऽपि स्वप्रतिष्ठा एष, यदि धर्मादीनामाधारोऽन्यः प्रकल्प्यते भवद्भिः तर्हि आकाशस्याप्याधारोऽन्यः करुप्यताम् , "एवश्च सति
अनवस्थाप्रसङ्गो भवतीति ; तन्न ; आकाशाइधिकपरिमाणमन्यद् द्रव्यं न वर्तते यस्मिन् द्रव्ये २५ आकाशं स्थितमिति कथ्यते । आकाशो हि सर्वतोऽनन्तः। धर्मादीनां यत्पुनराधार आकाशः
कल्प्यते तद्व्यवहारनयापेक्षया । एवम्भूतनयापेक्षया तु सायपि द्रव्याणि स्वप्रतिष्ठानि चर्तन्ते । एवम्भूत इति कोऽर्थः ? निश्चयनय इत्यर्थः । तथा चाभाणि
"ते पुणु बंदउ सिद्धगण जे अप्पाणि वसंति । लोयालोउवि सयल इहु अच्छहि विमलु णियंत ।।" [परमात्मप्र० १५]
२ शाः - सा० । २ कालद्रव्याणां लो- आ०, ० | ३ -झास्तु स्व- भाग, जः | ४ एवं सति अनवस्थाप्रसङ्गोपि भ-भा०,ज। ५ -भूतमिति सा०। ६ तान् पुनर्वन्दे सिद्धगणान् ये आत्मनि वसन्ति । लोकालोकपि सकलामह तिष्ठन्ति विमलं पश्यन्तः ।