________________
१८२
तस्वार्थवृत्ती
[५/-८ अथाधिकृतानां धर्माधर्माकाशंकद्रव्याणां विशेषपरिहानार्थ सूत्रमिदमुच्यते
निष्क्रियाणि च ॥ ७॥ बायाभ्यन्तरकारणवशान् सञ्जायमानो द्रव्यस्य पर्यायः देशान्तरप्राप्तिहेतुः क्रिया कथ्यते । तस्याः क्रियाया निष्कान्तानि निष्क्रियाणि । चकारः समुपये वर्तते । तेनायमर्थःधर्माधर्माकाशद्रव्याणि न केवलमेकद्रव्याणि अपि निष्क्रियाणि च स्वस्थानं परित्यज्य जीव- ५ पुद्गलबत परक्षेत्र न गच्छन्तीय बाणिर्माकामानि द्रव्याणि निष्कियाणि वर्तन्ते चलनादिक्रियारहितानि सन्ति तहि तेषामुत्पादो न सङ्गच्छते । उत्पादो हि क्रियापूर्वको व्याख्यातः घटादिवन् । उत्पादाऽभावे व्ययोऽपि न स्यात् । एवञ्च सति धषिर्माकाशद्रव्याणाम् उत्पादळ्ययनौव्यत्रयकल्पना वृथा; युक्तमुक्तं भवता हास्येन कथयति-युकमुक्तमयुक्तमुक्तमित्यर्थः । एवं सर्वत्र चालनायां शातव्यम् । 'चलनादिक्रियाकारणोत्पादाऽभाषेऽपि १० धर्माधर्माकाशानामपरथाप्युत्पादो वर्तते एव । तत्कथमिति चेत् ? उच्यते-स्वनिमित्तः परप्रत्ययश्चेदु(त्युत्पादो द्विविधः । तत्र स्वनिमित्तः आगमप्रमाणत्वात अगुरुलघुगुणानाम अनसानन्तानामङ्गीक्रियमाणानां षट्स्थानपतितया वृद्ध था षट्स्थानपतितया हान्या च वर्तमानानामेषामुत्पादो व्ययश्च स्वभावादेव वर्तते । परनिमित्तोऽप्यस्ति "नरकरभादिगविस्थित्यवगाहनिमित्तत्वान् समये समये तेषां भेदान तद्धेतुत्वमपि भिन्नभिन्नमिति परप्रत्ययापेक्ष' उत्पादो १५ व्ययश्चोपचर्यते । चञ्चितमा-यनुचर्च्यते-ननु धम्मोधर्माकाशानि चेक्रियारहितानि वर्तन्ते तर्हि जीवानां पुद्गलानाञ्च गतिस्थित्यवकाशहेतवः कथं भवन्ति ? यतः "सर्वतोमुखादीनि स्वयं क्रियावन्ति वर्तन्ते तानि तिम्यादीनां गतिस्थित्यवकाशदानकारणानि सङ्गच्छन्ते न निष्क्रियाणि धर्माधर्माकाशद्रव्याणि इति; सत्यम्; यथा चक्षु रूपाहणे निमित्तं तथा धर्मादीनि जीवानां श्लाधाननिमित्तमिति । अत्र धर्माधर्माकाशानां निष्क्रियत्यमङ्गोकतं जीष- २० पुद्गलानां सक्रियत्वमापते रेवायातम् , न तु कालस्य सक्रियत्वमस्ति जीवपुद्गलः सह अनधिकारात् तेन कालोऽपि निश्क्रियत्वं प्राप्त इत्यर्थः । पुद्गलानां रूपित्यं धर्माधर्माकाशानामेकद्रव्यत्वं निष्क्रियत्वञ्च त्रिभिः सूत्रैः प्रतिपादितम् , अर्थात् जीवानां यथायोग्यमरूपित्वमनेकद्रव्यत्वं सर्वक्रि(सक्रिीयत्वश्च सिद्धमिति ।
अथ "अजीवकाया धमाधमाकाशपुद्गला" [५।१] इत्यत्र कायशब्दमहणात् २५ प्रदेशानामस्तित्वं निश्चितम् , परं प्रदेशानामियत्ता न झायते-कस्य व्यस्य कियन्तः प्रदेशा इति तत्प्रदेशपरिज्ञानार्थ योगोऽयमुच्यते
.-
१ -व्यक- २० । २ चलना- k०, 40, ज्ञ० | ३ -यानिमित्तोत्पा-जा । -याकणामुत्पा- ०। ४ -ते त-ज., आ० | ५ नरकगर्भादि-व०।६ -क्षयाउ- श्रा०, अ, प० । ७ जलादीनि । ८ मत्स्यादीनाम् ।
--
-.
--
--..--.