________________
१०
पञ्चमोऽध्यायः
१८१ नित्याचस्थितान्यरूपाणि ॥ ४ ॥ नित्यानि ध्रुवाणि । "नै वे' [ जैने० या० ६।२।८२] इति साधु । अवस्थितानि सकरूयया अव्यभिचारीणि घटत्वसस्याया अपरिहारीणि, यथासम्भवं निजनिजप्रदेशाःनामत्यागीनि चेतनस्वाचितनत्वादिनिजामविपकिदाचिदपि यजमाति या अवस्थितानि ५ नित्यानि च तानि अवस्थितानि नित्यावस्थितानि | द्रव्याणां नित्यत्वमस्धितत्वश्च द्रध्यनयापेक्षया ज्ञातव्यमित्यभिप्रायः। न विद्यते रूपं येषां तानि अरूपाणि रूपरसादिरहितानि अमूर्वानीत्यर्थः ।
तर्हि यदि द्रव्याणि अरूपाणि भोक्तानि तन्मध्ये पुरला अपि च्यानिर्देशं प्राप्नुवन्तः अरूपा भविष्यन्तीत्युत्सर्गप्रतिषेधार्थमपवादसूत्रमाहुः
रूपिणः पुद्गलाः॥५॥ रूपं रूपरसादिसंस्थानपरिणामलक्षणा' मूर्ति पिद्यते येषां ते रूपिणः । अन्न नित्ययोगे इम् प्रत्ययः । तदुक्तम्
"भूमिनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्ति विवधायाँ मन्त्वादयो भवन्त्यमी ॥१॥" ।
[का० सू० २।६।१५ दौ० वृ० १] पूरणगलनस्वभावत्वात् पुद्गलाः । अन बहुवचनं परमाणुस्कन्धाधनेकभेदपरिकल्पनार्थ विश्वरूपकार्यदर्शनाद् वेदितव्यम् । पुद्गला रूपिणो मूर्तिमन्तो भवन्तीति तात्पर्यार्थः ।
अथ यथा पुद्गलाः प्रत्येक भिन्ना वर्तन्ते तथा धमाधमाकाशा अपि प्रत्येक कि भिन्नत्वमाप्नुवन्ति उताभेदमित्यनुयोगे सूत्रभिदमाहुः--
आ आकाशादेकद्रव्याणि ॥ ६॥ आकाशमभिव्याप्य आ आकाशात् , सूत्रानुक्रमेण त्रीणि द्रव्याणि धर्मोऽधर्मः आकाशश्च एते त्रय पकद्रव्याणि अखण्डप्रदेशा भवन्ति न तु पुद्गलवन् भिन्नप्रदेशाः स्युः। धर्म एकद्रव्यम् अधर्मोपि एकद्रव्यम् आकाशोऽपि एकद्रव्यम् । बहुवचनं तु धर्मादीनां त्रयाणामपेक्षया । एकस्यापि अनेकार्थप्रतीत्युत्पादनसामथ्योयोगान बहुवचनं कृतं तर्हि 'आ आकाशादे. २५ कैकम्' इति लघुसूत्रं किमिति न कृतम् । एवं सति सूत्रे द्रव्यग्रहणमनर्थक किमिति कृतम् ?
साधूतं भवता; द्रव्यग्रहणं द्रव्यापेक्षया एकत्वकथनार्थ क्षेत्रभावापेक्षया असंख्येयत्यानन्तस्वविकल्पप्रकटनाय च द्रव्यग्रहणं कृतं यथा जीवद्रव्यं नानाजीयापेक्षया भिन्न भिन्नं वर्तन पुद्गलद्रव्यच प्रदेशस्कन्धा पेक्षया भिन्न भिन्नमस्ति तथा धर्मोऽधर्मश्च आकाशच भिन्न भिन्नं न वर्तते।
१ ख्य या आ०,९०,ज०। २ -शान्न स्यजन्ति चे- आ.,., ज० | ३-णमूमा०,१०, ज०। ४ -यामम्वादेशो भ-१० | ५-प्रत्यु- आ०,६०,ज। ६-ययोभा,द, ज०,०। ७ साधु कथितं श्रा०, ज०। ८ -स्कन्धत्वापे-ut.. .।