________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज १८० ___तत्वार्थवृत्तो
[५॥३ 'अर्थपरिगणनेन परिगणनं न पूर्यते यतोऽन्यवादिभिः द्रव्याणि नव परिगणितानि वर्तन्ते अत्र तु पडेय; सत्यम् ; अत एव ज्ञायते पृथिव्यादीनां परमादिकल्पितानां द्रव्यत्वे नि (त्वनि) वृत्तिः कृता भवति । तत् कमिति चेत् ? उत्त्यते-पृथिव्याप्तेजोवायुमनसा पुद्गलद्रव्येऽन्तर्भावः। उक्तन
"पुढची जलं च छाया चउरिंदियविसयकम्मपाउमगं | छविहमेयं मणियं पुग्गलदय जिर्णिदेहि ॥ १ ॥ अइथूलधूलथूलं धूलं सुहुमं च सुडुमधूलं च ।
सुहुमं च सुहुमसुहुमं धराइयं होइ छन्भेयं ॥"[सु० सा० १८, १९]
पुद्गलद्रव्ये रूपरसगन्धस्पर्शाश्च वर्तन्ते यतः सहि वायुमनसोर्न रूपादिगुणयोगोस्ति कथं १० पुदलद्रव्ये अन्तर्भावः ? सत्यम् , वायुः स्पर्शवान् वर्तते कथन्न रूपादिमान् ? घटपटादिवत्
चक्षुरादिमिः प्रहीतुं न शक्यते वायुः कथं रूपादिमान ? तन्न; एवं सति परमाण्यादीनामपि रूपादिमत्त्वाभावः प्रसज्यते । आपस्तु गन्धवत्यः स्पर्शवत्वात् पृथिवीवत् वर्तन्ते । तेजोऽपि रसयुक्तं गन्धयुक्त वर्तते तदपि रूपादिमान् (मत्त) घटपटादिषत् । मनो द्विप्रकारं वर्तते
द्रव्यमनो-भावमनोभेदात् । तत्र द्रव्यमनः रूपादियोगात् पुद्गलद्र न्यस्यैव विकारः रूपादिमद् १५ वर्तते, चक्षुरिन्द्रियचत् झानोपयोगकरणं वर्तते । भावमनस्तु ज्ञानम् , ज्ञानं तु जीवगुणः
नस्य आत्मन्यन्तर्भावः । ननु अमूर्तोपि शब्दो शानोपयोगकारणं किन्न वर्तते यन्मूर्तस्य द्रव्यमनसः शानोपयोगकारणवमुच्यते भवद्भिः ? सत्यम् । शब्दः पौगलिकः, तस्यापि मूर्तिमत्त्वमस्त्येव श्रुतिस्पर्शवत्वात् । यथा सर्वेषां परमाणूनां रूपादिमत्कार्यत्वदर्शनान्
रूपादिमत्त्वं विद्यते न तथा वायुमनसो रूपादिमत्कार्य दृश्यते कधं घायुमनसोः पुद्गल २० द्रव्येऽन्तर्भावः ? सत्यम् । तेषामपि वायुमनःपुद्रलानामपि तदुपपत्ते-दृश्यमानरूपादि
मत्कार्योपपत्तेः, सर्वेषां परमाणूनां सर्वरूपादिमत्वकार्यत्वप्रानियोग्यताऽभ्युपगमात् । न च केचित परमाणवः पार्थिवादिजातिविशेषयुक्ताः सन्ति किन्तु "जातिसकरेण आरम्भदर्शनं तथा घायुमनसोरपि रूपादिमत्कार्यदर्शनम् । दिशोऽपि विहायस्यन्तर्भावः, आदि
त्योदयापेक्षया आकाशप्रदेशपक्तिषु "अस इदम्' इति व्यवहारोपपत्तेः । २५ अथोक्तानां द्रव्याण्णां विशेषपरिज्ञानार्थ सूत्रमिदमाहुः--
-
१ अर्थपरिगमनं मा०, २०,०। २ वैशेषिकैः । “पृथिव्यापस्तेजो वायुराकाशं काली दिगामा मन इति द्रव्याणि ।' -वैशे० १।१५। ३ पृथ्वी जलं च छाया चतुरिन्द्रियविषयकर्मप्रायोग्याः । घविधभेद भणित पुद्गलद्रव्यं जिनेन्द्रः ।। अतिस्थूलस्थूलस्थूलानि स्थूल सूक्ष्मं च सूक्ष्मत्थूलं च । सूक्ष्मं च सूक्ष्मसूक्ष्म भरादिकं भवति पद भेदम् ॥ ४-कारणं मान, प०, ज०, व० । ५ काधादनलस्य चन्द्रकान्तापजलस्य जलान्मुक्ताफलादेः न्यजनाच्नानिलस्योत्पत्तिदर्शनात् । ६ अतः इदं पूर्व पश्चिममित्यादि व्यवहारोपपत्तेः। इत इदे ता०, प० ।