________________
मार्गदर्शक :- आचार्य श्री सुविधासाथ हाचमोऽध्यायः
अदानी सम्यग्दर्शनविषया जीवादयः पदार्थास्तत्र जीवपदार्थः पूर्व व्याख्यातः, अजीवपदार्थस्तु व्याख्यातुमारब्धः तस्य नामविशेषकथनाथं श्रीमदुमास्वामिनः सूत्रमिदमाहुः
___ अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १॥ ५ न विद्यते जीव आत्मा येषां ते अजीवाः, कायबत् पुद्रलद्रव्यप्रचयात्मकशरीरवत्
बहुप्रदेशा वर्तन्ते ये ते कायाः, अजीवाश्च ते कायाश्च अजीवकायाः, "विशेषर्ण विशेष्येण" [पा० सू० २।१।५७ ] इति सूत्रेण कर्मधारयसमासः । अत्र अजीवा इति विशेषणं काया इति विशेष्यं तेन विशेषणं विशेष्येण सह समस्यते कर्मधारयसमासो भवति । धर्मश्च अधर्मश्च
आकाशश्च पुगलश्च धर्माधर्माकाशपुद्गलाः। एते चत्वारः पदार्थाः अजीवकाया भवन्ति । १० ननु "असङ्ख्ययाः प्रदेशा धर्माधर्मैकजीवानाम्" [ ५८ ] इत्यने बहुमदेशत्वं झापयि
ष्यति किमर्थमत्र बहुप्रदेशत्वसूचनार्थ कायशब्दस्य ग्रहणम् ? साधूक्तं भवता अत्र बहुप्रदेशसूचनलक्षणो विधिः कायशब्देन गृहीतः तस्यैव विधेरवधारणममे करिष्यति । किमवधारणं करिष्यति ? असल्येयाः प्रदेशः धमाधम्मै कजीयानाम् । किमत्राबधारणम् १ एतेषां
धर्मादीनां प्रयाणां प्रदेशा असख्येया भवन्ति अनन्ताः सख्येयाश्च न भवन्तीति निरि१५ यिष्यति । तथा च कालप्रदेशाः प्रचयात्मका न भवन्तीति नापनार्थ कायशब्दग्रहणम् । यथा
पकस्याणोः प्रदेशमात्रत्वात् द्वितीयादयः प्रदेशा न भवन्ति तथा कालपरमाणोरपि द्वितीयादयः प्रदेशा न भवन्ति, तेन कालोऽकाय इत्युच्यते । पुद्गलपरमाणोः यद्यपि निश्रयेन 'अबहुप्रदेशत्वमुक्तं तथापि उपचारेण बहुप्रदेशत्वमस्त्येव, यतः पुद्गलपरमाणुः अन्यपुद्गलपर
माणुभिः सह मिलति एकत्र कायवत् पिण्डीभवति, तेनोपचारेण काय उच्यते । काल २० परमाणुस्तु उपचारेणापि कालपरमाणुभिः सह न मिलति तेनोपचारेणापि काय इति नोच्यते । स तु स्वभावेन रत्नराशिवत् मुक्ताफलसमूहवन पृथक् तिष्ठति।
धधिकिाशपुद्गला अजीव इति सामान्यसंज्ञा, धर्मोऽधर्म आकाशः पुद्रलश्चेति विशेषसंज्ञा । ननु नीलोत्पलादिषु व्यभिचारो वर्तते "उत्पलनीलम्' इत्यादि, कथं विशेषणं
विशेष्येणेति घटते ? सत्यम् ; इहापि व्यभिचारो वर्तते अजीवशब्दः कायरहिते कालेऽप्यस्ति, २५ कायशब्दः जीवेऽप्यस्ति, सेन जीवकाय इत्यपि कथ्यते, नास्ति व्यभिचारस्य दोषः ।
अथ "सर्यद्रव्यपर्यायेषु केबलस्य" [१।२९ ] इत्यस्मिन सूत्रे द्रव्यशब्दः श्रुतः । कानि तानि द्रव्याणि इत्युक्ते सूत्रमिदमाहुः
१-ति श्रस-भा०,०, ९०, ज०। २ -ते- भा.। ३ अबहुलप्र- भार,., ०,०। ४ उत्पले नील- आ०, २०, जा।