________________
४।४०-४२]
ज्ञातव्यम् ।
चतुर्थोऽध्यायः
१७७
अथ क्योतिष्काणामुत्कृष्टस्थितिपरिज्ञानार्थं योगोऽयमुच्यते
ज्योतिष्काणाञ्च ॥ ४० ॥
चकारः प्रकृतसमुच्चयार्थः । तेन ज्योतिष्काणां परा स्थितिः पस्योपमाधिकमिति
- मार्गदर्शक :
अथ ज्योतिष्काणां जघन्य स्थितिपरिज्ञानार्थं सूत्रमिदं ब्रुवन्ति स्म -
तदष्टभागोऽपरा || ४१ ॥
तस्य पल्योपमस्य अष्टसु भागेषु कृतेषु एको भागः तदष्टभागा, अपरा अनुत्कृष्टा जघन्या स्थितियों तिष्काणां भवतीति तात्पर्यम् । अत्र विशेषः कथ्यते – चन्द्राणां पत्यमेकं वर्ष लक्षाधिकम् । सूर्याणां पत्यमेकां वर्षसहस्राधिकम् । शुक्राणां वर्षशताधिकं पस्योपमम् । बृहस्पतीनां पल्योपममेकमेव । बुधानां पत्यार्द्धम् । नक्षत्राणा पल्यार्द्धम् । प्रकीर्णकतारकाणां १० पत्यचतुर्थभागः परा स्थितिर्वेदितव्या । प्रकीर्णकतारकाणां नक्षत्राणा जघन्या स्थितिः पत्योपमाऽमो भागः । सूर्यादीनां जघन्या स्थितिः पत्योपमचतुर्थभागः । तथा घ विशेष:
लोकान्तिकानामष्टौ सागरोपमानि सर्वेषाम् ॥ ४२ ॥
आचाबे काम त्रिवेद्वेश्याः पश्चइस्तोन्नता अष्टसागरोपमस्थितय इति । १५ अस्मिन् चतुर्थेऽध्याये चतुर्णिकाय देवानां स्थानभेदाः सुखादिकचोत्कृष्टाऽनुत्कृट स्थिति लेश्याञ्च निरूपिता इति सिद्धम् ।
इति सूरिश्रीश्रुतसागरविरचितायां तात्पर्य संज्ञायां तत्त्वार्थवृत्तौ चतुर्थः पादः समाप्तः ।
१ -गः लोका- आ०, ६० ज० । २ - षः ये लौकान्तिकाः ता० । ३ सूत्रमेतन्नास्ति ता० प्रतौ । ४ इत्यनवद्यगद्यपद्यविद्याविनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्न राजमतिसागरयतिराजराजितार्थसमर्थेन तर्कव्याकरण छन्दो लङ्कारसाहित्यादिशास्त्र निशितमतिना यतिना श्रीमद्देवेन्द्रकीर्त्तिमहारकप्रशिष्येण शिष्येण न सकळविद्वज्जनविद्दितचरणसेवस्य श्रीविद्यानन्दिदेवस्य सञ्चदित मिथ्यामतदुर्गरेण श्रीभुतसागरेण सूरिणा विरचितायां श्लोकवर्ति फराजवाति कसर्वार्थसिद्धिन्याय कुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डासह सीप्रमुख ग्रन्यसन्दर्भनिर्भरावलोकन बुद्धि विराजितायां तत्त्वार्थ टीकायां चतुर्थोऽध्यायः समाप्तः । आ०, ६०, ० ०
२३