SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवृत्ती [४।३५.३९ स्थितिरुस्यत-सौधम्मैशानयोः कल्पयोः । सागरोपमे साधिके उक्त ने तु सानत्कुमारमाहेन्द्रयोः जघन्या स्थितिर्भवति । सानत्कुमारमाहेन्द्रयोः सप्तसागरोपमानि साधिकानि कथितानि तानि प्रह्मलोकब्रह्मोत्तरयोः जघन्या स्थितिः ज्ञातव्या। एवं विजयादिपर्यन्तेषु 'वेदितव्यम् । अथ नारकाणां पूर्व मुत्कृष्य स्थितिः प्रतिपादिता, जघन्या तु नोक्ता तत्परिज्ञानार्थ ५ लघूपायेन अनधिकृतमपि सूत्रमधिक्रियते। कोऽसौ लघूपायः ? 'अपरा' इत्यक्षरत्रयं वारद्वयं मा भूदिति । नारकाणाञ्च द्वितीयादिषु ।। ३५ ॥ नरके भवाः नारकास्तेषां नारकाणां द्वितीयादिषु भूमिषु प्रस्तारेषु च अपरा जपन्या स्थितिः भवति । चकारात् पूर्वापूर्वाऽनन्तरा इत्यनुकृष्यते । तेनायमर्थः-स्थूलतया रत्नप्रभायां १० प्रथमनरकभूमौ नारकाणामुत्कृष्टय स्थितिरेकसागरोपमं प्रोक्तं सा शर्करामभायां द्वितीयनरक भूमौ जघन्या वेदितव्या। शक्करामभायां त्रीणि सागरोपमानि उत्कृष्टा स्थितिः कथिता सा वालुकाप्रभायां तृतीयनरकभूमौ जघन्या स्थितिः बेदितव्या इत्यादि यावत् सप्तमनरके द्वाविंशतिसागरोपमानि जघन्या स्थितिर्भवति अथ द्वितीयादिषु भूमिषु जघन्या स्थितिः यदि प्रतिपादिता तईि प्रथमायां नरकभूमी १५ का जघन्या स्थितिरिति यते-आचारी दशवर्षसहस्राणि प्रथमायोमगारद महाराज वर्षणां सहस्राणि वर्षसहस्राणि, वश च तानि वर्षसहस्राणि दशवर्षसहस्राणि प्रथमायां प्रथमनरकभूमौ दशवर्षसहस्राणि अपरा जघन्या स्थितितिव्या । सा तु प्रथमपटले सीमन्तकनाम्न्येव । द्वितीयपटले नषति वर्षसहस्राणि जघन्या स्थितिः। सृतीयपटले नवति२० वर्षलक्षाणि इत्यादि सर्वत्र समयाधिका सती जघन्या स्थितिर्वातव्या । अथ भवनवासिना जघन्या स्थितिरुच्यते भवनेषु च ॥ ३७॥ भवनेषु भवनवासिषु देवेषु दशवर्षसहस्राणि जपन्या स्थितिर्भवति । पकारः अपरास्थितिरित्यस्यानुकर्षणार्थः। २५ अथ व्यन्तराणां जघन्या स्थितिरुच्यते-- व्यन्तराणाश्च ॥ ३८॥ न्यन्तराणां किन्नरादीनां दशवर्षसहस्राणि जघन्या स्थितिर्भवति । चकारः अपरास्थिति रित्यस्याऽनुकर्षणार्थः । तहि व्यन्तराणामुत्कृष्टा का स्थितिरिति चेत् ? उच्यते-- परा पल्योपममधिकम् ।। ३६ ।। परा उत्कृष्टय स्थितिय॑न्तराणाम् एकं पल्योपमं किञ्चिदधिकं भवति । १ -स्ते वेदितच्या क.। २ -रेक साग- आ०, २०,०, ०। ३ -तिवर्ष- ज.। ४ -तिर्दशवर्षसहस्राणि हत्यनु - ताल, प० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy