SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १६५ ४/१५-२६ ] चतुर्थोऽध्यायः भवा लौकान्तिकाः । न तु सर्वेऽपि लौकान्तिकाः कथ्यन्ते । तेषां विमानानि ब्रह्मलोकस्वर्गस्य अन्तेषु अवसानेषु वर्तन्ते । अथवा जन्मजरामरणव्यातो लोकः संसारस्तस्य अन्तः लोकान्तः, लोकान्ते परीतसंसारे भवा लौकान्तिकाः । ते हि त्रह्मलोकौन्ताच्च्युत्वा एकं गर्भवासं परिप्राप्य निर्वाणं गच्छन्ति तेन कारणेन लौकान्तिका उच्यन्ते । " अथ सामान्यतया लौकान्तिकाः प्रोक्ताः तेषां भेदप्रतिपत्त्यर्थं सूत्रमिदमाहुःसारस्वतादित्यवत्यरुण गर्दतोय तुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ सरस्वती चतुर्दशपूर्वलक्षणां विदन्ति जानन्ति सारस्वताः । अदितेर्देवमातुरपत्यानि आदित्याः । वह्निद्देदीप्यमाना वह्नयः । अरुणः उद्यद्भास्करः तद्वत् तेजोविराजमाना अरुणाः । गर्दाः शब्दाः तोयवत् प्रवहन्ति 'लहरितरङ्गयत् प्रवर्तन्ते येषु ते गर्दतोयाः । तुष्यन्ति विषयमुखपराङ्मुखा भवन्ति तुषिताः । न विद्यते विविधा कामादिजनिता आ सम- १० न्तात् बाधा दुःखं येषान्ते अध्याबाथाः । न विद्यते रिष्मकल्याणं येषां ते अरिष्टाः । सारस्वताच आदित्याश्च वहयश्व अरुणाश्च गर्दतीयाञ्च तुषिताच अव्यावाधाव अरिष्टाश्च ते तोताः । तत्र सारस्वतानां विमानमीशानकोणे वर्तते । आदित्यानां विमानं पूर्वदिशि अस्ति । ari देवगणानां विमानम् अग्निकोणे सिष्ठति । अरुणानां विमानं दक्षिणदिश्यस्ति । गर्दतोयानां विमानं नैर्ऋर्ऋत्यकोणे आस्ते विमानं वायुकोणे विद्यते । अरिष्टानां विमानम् उत्तरदिश्यस्ति । चशब्दात् सारस्वतादित्यानामन्तराले अग्न्याभसूर्याभाणां विमाने वर्तेते । आदित्यवहीनामन्तराले चन्द्राभसत्यामाना विमाने स्तः । बह्ररुणानामन्तराले श्रेयस्कर क्षेमङ्कराणां विमाने तिष्ठतः । अरुणगर्दतोयानामन्तराले वृषभेष्टकामचराणां विमाने आसाते । गर्दतोय तुषितानामन्तराले निर्वाणरजोदिगन्तरक्षितानां विमाने विद्येते । तुषिताव्याचाधानामन्तराले आत्मरक्षितसर्यरक्षितानां विमाने २० भवतः । अव्यात्राधारिष्टानामन्तराले महदूद्वसूनां विमाने स्याताम् । अरिष्टसारस्वतानामन्तराले अश्वविश्वानां विमाने स्तः । सर्वेऽपि लौकान्तिकाः स्वाधीनवृत्तयो हीनाधिकत्व भावाभावात् विषयसुखपरराङ्मुखत्वाद् देवर्षयश्च कथ्यन्ते । अत एव देवानामर्चनीयाः चतुर्दशपूर्व धारिणः तीर्थङ्करपरमदेवानां निष्क्रमणकल्याणे स्वामिसम्बोधनसेवानियोगाः । "चतुर्लक्षास्तथा सप्तसहस्राणि शताष्टकम् । य १५ विंशतिमिलिता एते सर्वे लौकान्तिकाः स्मृताः ॥" [ 1 अथ यद्येते एकं भवं प्राप्य निर्वाणं गच्छन्ति तर्हि अन्येषामपि देवानामस्ति कश्चिनिर्याणप्राप्तिकालविभाग इति प्रश्ने सूत्रमिदमुच्यते विजयादिषु विरमाः ॥ २६ ॥ विजयो विजयनामा विमानः स आदिः प्रकारो येषां ते विजयादयः विजयवैजयन्त- ३० १ सारेण म आ०, ५०, ज० । २ -लोकाच्यु- आ० द० ज० ३ प्राप्ताः भ० 1 ४ लहरीत आ० ० ० ० ५ गम्बराक्ष आ० हु०, जै० । २२ A
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy