________________
३।३८ ]
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज तृतीयोऽध्यायः
१५१
न्तीत्यर्थः । 'अन्न अन्यत्रशब्दो वर्जनायें ज्ञातव्यः । तेन " दिगितस्तेऽन्यैश्च" [ का०सू० २२४ २१] इत्यनेन सूत्रेण लिङ्गात् पचमी सञ्जाता । यद्येते पचदशप्रदेशाः कर्मभूमय इति व्यपदिश्यन्ते कर्मभूमयः कथ्यन्ते तर्हि देवकुरुत्तरकुरु है मक्त हरिवर्ष रम्यक है रण्यवतषण्णवत्यन्तरदीपा भोगभूमय इत्युच्यन्ते । तत्रायं तु विशेषः -- ये अन्तरद्वीपजास्ते कल्पवृक्षकल्पितभोगा न भवन्ति । तथा सर्वे भोगभूमिजा मृताः सन्तः देवत्वमेव प्राप्नुवन्ति । 'पूर्वपश्चिमदक्षिणोत्तरेषु ५ अन्तरद्वी पात्याः शुभकर्म भूमिसमीपवर्तित्वात् 'चातुर्गतिका भवन्ति' इति केचिदाहुः । मानुषोत्तरात्परतः स्वयम्भूरमणद्वीपमध्यस्थितस्वयम्प्रभ पर्वतं यावत् एकेन्द्रियपचेन्द्रियास्पदा एव द्वीपा कुत्सितभोगभूमय उच्यन्ते । तत्र पबेन्द्रियाः तिर्यन एव न तु मनुष्याः, असंख्येयवर्षायुषो गव्यत्युतशरीराः । तेषां चत्वारि गुणस्थानानि सम्भवन्ति ।
अथ मानुषोत्तर इति यः पर्वतः श्रुतः स कीदृशः १ एकविंशत्यधिकयो जनसप्तदश- १० शतोन्नतः, त्रिंशदधिक योजनचतुःशतभूमिमध्यगतः, द्वाविंशत्यधिकयोजन सहस्रबुध्न विस्तारः, त्रयस्त्रिंशदधिकयोजन सप्तशतमध्यविस्तारः, चतुर्विंशत्यधिकयोजन चतुःशतो परिविस्तारः । तदुपरि चतुर्दिक्षु चत्वारञ्चैत्यालया नन्दीश्वरी पचत्यालयसच्शा ज्ञातव्याः ।
अथ कैः कर्मभिः कर्मभूमिरुच्यते इति चेत् ? उच्यते - शुभं कर्म सर्वार्थसिद्ध्यादिनिमित्तम्, अशुभ कर्म सप्तमनरकादिहेतुभूतम् असिम षिकृषि विद्या शिल्प वाणिज्य- १५ लक्षणं षड् विधं कर्म जनजीवनोपायभूतम्, पात्रदानदेवपूजनादिककच कर्म, तैः कर्मभिरुपलक्षिताः कर्मभूमय इत्युच्यन्ते । 'ननु सर्वं जगत् कर्माधिष्ठानमेव, कथमेता एवं कर्मभूमयः ? इत्याइ - सत्यम् ; उत्कर्षेण शुभाशुभकर्माधिष्ठानात् कर्मभूमय इति ।
स्वयम्प्रभपर्वतान्मानुषोत्तराकारात्परत आलोकान्तं ये तिर्यञ्चः सन्ति तेषु पञ्च गुणस्थानानि सम्भवन्ति । ते च पूर्वकोयायुपः । तत्रत्या मत्स्याः सप्तमनरकहेतुकं पाप- २० मुपार्जयन्ति । स्थलचराश्च केचित् स्वर्गादिहेतुपुण्य में प्युपार्जयन्ति । तेन अर्द्धा द्वीपः सर्वः समुद्र समुद्राद्बहिश्चत्वारः कोणाश्च कर्मभूमिरित्युच्यते इति विशेषः ।
अथ उक्त भूमिषु नराणामायुः परिज्ञानार्थं सूत्रमिदमुच्यते भगवद्भिरुमास्वामिभिः-स्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥
स्थितिच स्थितिश्व स्थिती, नृणां नृणां वा स्थिती नृस्थिती द्वौ आयुःकालौ इत्यर्थः । २५ कथम्भूते द्वे नृस्थिती ? परावरे पर उत्कृष्ट अवरा च निकृष्टा जघन्येति यावत् परावरे | पुनरपि कथम्भूते नृस्थिती ? त्रिपल्योपमान्तर्मुहूर्त्ते । त्रीणि पत्योपमानि यस्याः पराया उत्कृष्टायाः स्थितेः सा त्रिपल्योपमा अन्तर्गतोऽपरिपूर्णो मुहूर्त्तो घटिकाद्वयं यस्या अवराया जघन्यायाः साऽन्तर्मुहूर्ता, त्रिपल्योपमा चान्तर्मुहूर्ता च त्रिपक्ष्योपमान्तर्मुहूर्ते । अस्यायमर्थः—
१ अथात्र आ० | २ यः कथ्यन्ते आ०, ब० ० ज० १३ सप्तनरका-०, ६०, ब०, प०, ० । ४ – विवाणिज्य विद्या शिलाल- भ० ० ज० । ५ पूजादिकं क भ ०. ज० । ६ न तु सर्व ता० आ०७ -यमुना- ० ज० । ८ - द्वयमस्या भ० ज० ॥