SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १४३ ३३.२१ । तृतीयोऽध्यायः भवा देवकुरपकाः । हैमयतकाश्च 'हारिवर्ष काश्च देवकुरवकाश्च हैमवतकहारिवर्षकदैवकुरथकाः । अस्यामर्थ:--पञ्चमेरुसम्बन्धिनां पञ्चानां हेमवतक्षेत्राणां सम्बन्धिना मनुष्याणां सदा सुषमदु.पमाकालानुभंवनम् , आयु.स्थितिरेकपल्योपमा द्विधनुःसहस्रोन्नतिः, एकान्तरेण मुक्तिश्च इन्दीवरवर्णवर्णश्च । पम्नानां हरिवर्प क्षेत्राणां सम्बन्धिना मनुष्याणां सदा सुषमाकालानुभवनम् , आयु स्थितिः द्विपल्योपमा, चतुश्चापसहस्रोन्नतिश्च द्विदिनान्तरेण भुक्तिश्च, ५ कुन्दावदातानि शरीराणि । पचानां देवकुरूणां सम्बन्धिना मनुष्याणां सदा सुषमसुषमाकालानु भवनम् , आयुःस्थितिः त्रिपल्योपमा, षट्धनुःसहस्रोत्रतिश्च, त्रिदिनान्तरेण भुक्तिः, काञ्चनवर्णानि शरीराणि । तहिं हैरण्यवतरम्यकोत्तरकुरूणां मनुष्याः कीदृशाः सन्तीति प्रश्ने सूत्रमिदमाचष्ठे तथोत्तराः ।। ३०॥ तथा तेनैष हैमवतादिक्षेत्रत्रयमनुष्यप्रकारेण उत्तराः हैरण्यवतरम्यकोत्तरकुरूणां मनुष्या ज्ञातव्याः । अस्यायमर्थः-हैमवतक्षेत्रमनुष्यसदृशा हेरण्यवतक्षेत्रमनुष्याः। हरिवर्षक्षेत्रमनुष्यसदशा रम्यकक्षेत्रमनुष्याः। देबकुरुक्षेत्रमनुष्यसदृशा उसरकुरुक्षेत्रमनुष्याः । तर्हि पूर्वविदेहाऽपरविमनष्याणां स्थितिः कीदृशी वर्तते इति प्रश्ने सुत्रमिदमाचः विदेहेषु संख्येयकालाः ॥ ३१ ॥ विगतो विनष्टो देहः शरीरं मुनीनां येषु ते विदेहाः प्रायेण गुक्तिपदप्राप्तिहेतुत्वात् , तेपु विदेहेषु पञ्चानां मेरूणां सम्बन्धिनः पञ्चपूर्वविदेहाः पञ्चापरविंदेहाः उभये मिलित्वा पञ्चमहाविदहाः कथ्यन्ते। तेषु मनुष्याः संख्येयकालाः, संख्यायते गणयितुं शक्यते, संख्येयः, उत्कर्षेण पूर्वकोटिलक्षण: जघन्येान्तमुहूर्तलक्षणः संख्येयः कालो जीवितं येषां ते संख्येयकालाः । अस्यायमर्थ:--सर्वेषु पञ्चसु महाविदेहेषु सदा सुपमदुःपमाकालान्तकाल- २० सदृशो दु.पमसुषमानामकः सदा निश्चलः कालो वर्तते । तत्र पञ्चजनाः पञ्चचापशतोन्नता भवन्ति, नित्यभोजनाश्च वर्तन्ते । किं ता पूर्व येन गणितं तेषामायुः ? तथा चोक्तम् "पुंन्यम्स दु परिमाणं सदरि खलु कोडिसदसहस्साई । छप्पण्णं च सहस्सा बोधवा वासकोडीणं ।।" [जम्चू: प० १३२१२] २५ अस्यायमर्थः-समतिलनकोटिवर्षाणि पटपञ्चाशत्सहस्रकोटिवणि या भवन्ति तदा एक पूर्वमुच्यते । तस्य पूर्वस्य अक्रमो यथा-दशश न्यानि तदुपरि षट्पञ्चाशत् तदुपरि सप्ततिः-७०५६००००००००००। ईदम्विधानि पूर्वाणि शतलक्षाणि तेषां मनुष्याणायुभवति । अधेदानों पुनरपि भरतक्षेवस्य प्रमाणं प्रकारान्तरेण निरूपयन्त्याचार्याः १ हारिधपांश्च भाछ, ज० । २ -नायनामा - ता०, 4 । ३ --युः पु-त। ४ पूर्वस्य नु परिमाणं सप्ततिः बढ़ काटिशतसहस्राणि । पपञ्चाशत् न सहस्राणि श्राद्धानि वर्षको टीनाम् ॥
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy