SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १३६ तत्वार्थवृत्त अथेदानीं गङ्गादिनदीनां परिवार नदी परिज्ञानार्थं सूत्रमिदमाहु:चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्यादयो नमः || २३ || नदीनां सहस्राणि नदीसहस्राणि चतुर्दश च तानि नदीसहस्राणि तैः परिवृता वेष्टिताः चतुर्दशन दीसहस्रपरिवृताः । गङ्गा च सिन्धुश्च गङ्गासिन्धू गङ्गासिन्धू आदिर्यासां रोहिद्रोह५ तास्यादीनां ताः गङ्गासिन्ध्यन्ति धमनुतात् पूर्व चतुर्थं सूत्रं यदुक्तमस्ति तस्मिन्सुत्रे 'सरितस्तन्मध्यगाः" इत्यनेनैव वाक्येन सरिच्छदेन नयः प्रकृता वर्तन्ते अधिकृताः सन्ति, तेनैव सरिच्छब्देन नद्यो लब्धाः पुनः 'नद्यः' इति प्रह किमर्थम् ? 'चतुर्दशनदी सहस्रपरिवृता गङ्गासिन्ध्यादयः' इतीदृशं सूत्रं क्रियतां किं पुनर्नदी शब्दग्रहणेन ? सत्यम् : नदीप्रहणं द्विगुणद्विगुणाः' इति सम्बन्धार्थम् । तईि गङ्गासिन्ध्यादि१० ग्रहणं किमर्थम् ? पूर्वोक्ता एव गङ्गासिन्ध्यादयो ज्ञास्यन्ते, तेन गङ्गासिन्ध्यादयः इति पदं व्यर्थम्, 'चतुर्दशनदीसहस्रपरिवृताः नद्यः' इत्येव सूचं क्रियताम् सत्यम्; "अनन्तरस्य विधिः प्रतिषेधो वा [पात ११२१४७ ] इति व्याकरणपरिभाषासूत्र बलेन अपरगानामेच नदीनां ग्रहणं भवेत्, न तु पूर्वगानाम् । तर्हि चतुर्दशनदी सहस्रपरिवृता गङ्गादयो नयः' इत्येवं सूत्रं क्रियतां किं सिन्धुशब्दग्रहणेन ? सत्यम् एवं सति पूर्वगानामेव १५ नदीनां ग्रहणं भवेत् । अतः कारणादुभयीनां नदीनां ग्रहणार्थं गङ्गासिन्ध्वादिग्रहणं साधु | अस्य सूत्रस्यायमर्थः - भरत क्षेत्रमध्ये ये गङ्गासिन्धू द्वे नयौ वर्तेते ते " प्रत्येकं द्वे अपि 'चतुर्दश-दीसहस्रपरिवृते रतः । हैमवतनाम जघन्य भोगभूमि क्षेत्रमध्ये द्वे रोहिद्रोहितास्याभिषे नर्तेते ते प्रत्येकं अष्टाविंशतिनदीसहस्रपरिवृते भवतः । ये हरिक्षेत्रमध्यमभोगभूमिमध्ये हरिहरिकान्तास्ये वर्तते ते द्वे अपि प्रत्येकं षट्पञ्चाशन्नदीसहस्रपरिवृते स्याताम् । ये २० विदेहमध्ये सीवासीतादाह्वये के नद्यौ वर्तते ते प्रत्येकं है अपि द्वादशसहस्राधिकेन नदीलक्षण परिवृते चास्तः । ये रम्यक नाममध्यमभोग भूमिक्षेत्रमध्ये नारीनरकान्ताभिधाने नद्यौ वर्तेते ते प्रत्येकं द्वे अपि षट्पञ्चाशदीसहस्रसंयुक्ते जामतः । ये हैरण्यवत नाम जघन्यभोगभूमिक्षेत्रमध्ये सुवर्ण कूलारूप्यकूला सब्ज्ञके वर्तते, ते प्रत्येकं द्वे अपि अष्टाविंशतिनदीसहस्रपरिवृते स्याताम् । ये ऐरावत क्षेत्रमध्ये रक्तारतादानामिके द्वे नद्यौ बर्त्तेते ते प्रत्येक द्वे २५ अपि चतुर्दशनदीसहस्रपरिवृते भवतः इति तात्पर्यम्। भोगभूमिबत्तियो नयस्त्रसजीवरहिताः सन्ति । जम्बूद्वीपसम्बन्धिन्यो मूलनद्योऽष्टसप्ततिर्भवन्ति । तासां परिवारनदीनां द्वादशस६सौधिकानि पञ्चदशलक्षाणि ज्ञातव्यानि । जम्बूलीपविभङ्गनयो द्वादश वर्त्तन्ते । तासां परिवारनद्यः परमागमाद् बोद्धव्याः । एवं पञ्चमेरूसम्बन्धिनीनां मूलनदोनों नवत्यधिकत्रिशतप्रमाणानां परिवारनदोनां षष्टिसहस्राधिकानि पञ्चसप्ततिलक्षाणि ज्ञातव्यानि । पांष्ट३० चिभङ्गनश्च ज्ञातव्याः । [ ३२३ १ - तस्मात्सू - आ०, ५०, १०, ० । २ नदीप्रणं भ० ६०, ब० ज० । ३ द्विगुणा इति आ०, ब०, ब० ४ सू- १० द० ० ० १ ५ ते द्वे अपि प्रत्येकं न द० । ६ - मिम व०, ६०१ ७ - साध्यधि- अज० १
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy