________________
तृतीयोऽध्यायः
अथ “भवप्रत्ययोऽवधिर्देवनारकाणाम्" इत्यादिपु नारकशब्द अ कर्णितः । 'के ते arce:' इति प्रश्ने नारकस्वरूपनिरूपणार्थं नारकाणामधिकरणभूताः सप्त भूमय उच्यन्ते
रस्नशर्करावालुकापङ्कधूमतमोम हातमः प्रभा भूमयो घना -
स्वाताकाशप्रतिष्ठाः सप्ताघोऽधः ॥ १ ॥
सप्तभूमयः सप्तनरकभूमयोऽघोषो भवन्ति नीचेनीचैर्भवन्ति । कथम्भूताः सप्तभूमयः ? रत्नशर्करवालुकापङ्कधूमत्तमो मद्दात्तमःप्रभाः । प्रभाशब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः – रत्नप्रभा च शर्कशप्रभा च बालुकाप्रभः च पङ्कप्रभा च धूमप्रभा च तमः प्रभा च महातमः प्रभा च । रत्नप्रभासहिता भूमी यात्रााशक सन्ताय श्री शुधसिंदी महाराज भूमिः शर्कशप्रभा, अतीपत्तेजस्का । बालुकाप्रभासहिता भूमिर्वालुकाप्रभा अन्धकारप्राया १० अतिमनाकूतेजस्का । पङ्कः कर्दमः पङ्कप्रभासहिता भूमिः पङ्कप्रभा, पक्केऽपि मलिना प्रभा वर्त्तते । धूमप्रभासहिता भूमिधू मप्रभा । धूमेऽपि पक्कादपि मलिनतरा प्रभा वर्तते । तमःप्रभासहिता भूमिस्तमः प्रभा । तमसोऽपि स्वकीया प्रभा वर्त्तते । महातमः प्रभासहिता भूमिः महातमः प्रभा, महान्धकारसहिता भूमिः । तमस्तमःप्रभाऽपरनाम्नी । अत्र वालुकास्थाने पालिका इति च पाठो दृश्यते । तथा सति वालुकाया वालिकेत्यभिधा ज्ञातव्या । पुनरपि १५ कथम्भूता भूमयः ? घनान्चुवाता काशप्रतिष्ठाः । घना अम्बु च वातश्च आकाशच घनाम्बुषाताकारशः, घनाम्बुचाताकाशाः प्रतिष्ठा आधारो यासां भूमीनां ता घनाम्बुवानाकाशप्रतिष्ठाः । घनवातः धनोदधिवाताऽपरनामको वातः । अम्चुवातः घनवाताऽपरनामको यातः । वातस्तनुपरनामको वातः । अस्यायमर्थः -- सर्वाः समापि भूमयों धनवानप्रतिष्ठा वर्तन्ते । स धनवातः अम्बुवानप्रतिष्ठोऽस्ति । स चाम्बुवातस्तनुवात प्रतिष्ठो वर्तते । स च तनुवात २० आकाशप्रतिष्ठो भवति । आकाशस्थालम्बनं किमपि नास्ति । सप्त भूमय इत्युक्ते अधिकोनसंख्यानिषेधः प्रतिपादितः । अधोऽधः इत्युक्ते तिर्यग् न वर्त्तन्ते, उपर्युपरि च न वर्तन्ते, रज्जुरज्जुप्रमाणाकाशान्तरे वर्तन्ते इत्यर्थः । यथैते त्रयो वाताः भूमीनां पर्यन्तेषु वर्तन्ते तथा सप्तानां भूमीनामधस्तलेषु च त्रयो वाताः प्रत्येकं वर्तन्त इति च ज्ञातव्यम् । अत्र प्रस्तावागत त्रैलोक्यबेष्टनवातस्त्ररूपनिरूपणार्थं श्लोकत्रयोदशकमुच्यते । तथा हि
-कं यु- भा०, ब०, ३० ज० | २ महान्धकारा आ०, ब०, २० जे० । ३ अतीय तेजय० । अतीव तेन य० । अर्तवन्तेज- आ ब द० ४ समग्र आ०, ब०, ६०, ज० ।
२५