________________
द्वितीयोऽध्यायः
१०५
सन्देह
तदा स चिन्तयति - 'तीर्थकर परम देवदर्शनं विनाऽयं सन्देहो न विनश्यति । भगवान् अत्र क्षेत्रे नास्ति । किं क्रियतेऽस्माभिः' इति चिन्तां कुर्वाणे प्रमत्तसंयते मुनौ सति तस्य तालुपदेशे रोमाग्रस्य अष्टमो भाग रिछद्रं वर्त्तते तस्मात् हस्तप्रमाणं घनघटितस्फटिकविम्बाकारं पुत्तलकं निर्गच्छति । तत्पुत्तलकं यत्र कुत्रापि क्षेत्रे तीर्थङ्कर रमदेवो गृहस्थ गच्छति । तच्छरीरं स्पृष्ट्वा पश्च/- ५ क्षपाति । तेनैव तालुछिद्रेण तस्मिन्मुनौ प्रविशति । तदा तस्य मुनेः सन्देहो विनश्यति सुखी भवति । इत्याहारकशरीरस्वरूपम् । तेजस नामकर्मेन्दियनिमित्तं वपुस्तेजः सम्पादकं यत् तेजसम् । तेजसि वा भवं तैजसम्, सर्वप्राणिषु वर्त्तते एव । कार्मणनामकर्मोदयनिमित्तं कार्मणम्, कर्मेण कार्य वा कार्मणम्। कर्मणां समूहो वा कार्मणम् । सर्वेपां शरीराणां कर्मच निमित्तं वर्त्तते यद्यपि तथापि प्रसिद्धिवशात् विशिष्टचिपये वृत्तिर्ज्ञातव्या । १० धर्मोऽपि निमित्तं कर्म इत्यर्थः ।
३७-३९ ]
अथौदारिकं शरीरं चक्षुरादिभिरिन्द्रियैरुपलभ्यते उदारत्वात्तथेतरेषां शरीराणां कस्मात लेधिनं भवतीति स्फुटं प्रष्टा इव स्वामिनः प्राहुः
परं परं सूक्ष्मम् || ३७ ॥
1
औदारिकात् स्थूलरूपात् परं वै क्रियिकं सूक्ष्मं भवति । वैकिविकान् परमाहारकं सूक्ष्मं १५ भवति । आहारकान् परं तैजसं सूक्ष्मं भवति । तैजसान् परं कार्मणं शरीरं सूक्ष्मं भवति । 'यदि परं परं सूक्ष्मं तहिं परं परं प्रदशैरपि हीनं भविष्यति' इत्याशाक्कायां सूत्रमिदमाहुरुमास्वामिनः -
प्रदेशतोऽगुर्ण प्राक् तैजमात् ॥ ३८ ॥
प्रदेशेभ्यः प्रदेशतः परमाणुभ्यः परं परमसङ्ख्यातगुणं भवति । कथं प्राकू, कस्मात् २० प्राकू ? तैजसान् तैजसशरीरात् । औदारिकाद् असङ्ख्यगुणपरमाणुकं वैकियिकं भवति । बैकियिकादाहारकमं सख्येयगुणपरमाणुकं भवति । कोऽसौ गुणकारः ? पल्योपमासमूख्येयभागन श्रेण्यसंख्येयभागेन वा गुणकारो ज्ञातव्यः । उत्तरोत्तरस्य बहुप्रदेशत्वेऽपि सूक्ष्मत्वं छोद्दपिण्डवत् ज्ञातव्यम् । पूर्वपूर्वस्य अल्पप्रदेशत्वेऽपि स्थूलत्वं तूलंनिचयबद् बोध्यम् ।
तर्हि तेजसकार्मणयोः शरीरयोः प्रदेशाः किं समा वर्त्तन्ते, आहोस्वित् कश्विद् विशेषोऽस्ति ? इति प्रश्ने योगमेतं प्रतिपादयन्ति -
པཱདྷ
अनन्तगुणे परे || ३९ ॥
परे तेजसकार्मणे द्वे शरीरे अनन्तगुणे भवतः । आहारकशरीरात्तेजयं शरीरं प्रदेशरनन्तगुणं भवति । तैजसाच्छरीरात्कार्मणं शरीरं प्रदेशरनन्तगुणं जागर्ति । कोऽसौ ३०
१ - मसंख्यातगु आ०, ब०, व० द० ज० । २ १०, ० ज० ।
१४