________________
२।२४-२५
द्वितीयोऽध्यायः इति निर्वचनम् । कृम्यादीनां स्पर्शनं भवत्येव रसनमधिकं भवति । पिपीलिकादीनां स्पर्श नरसने भवत एव घाणमधिकं भवति । भ्रमरादीनां स्पर्शनरसनघ्राणानि भवन्त्येव
चक्षुरधिकं भवति । मनु यादीनां स्पर्शनरसनप्राणचक्षु पि भवन्त्येव श्रोत्रमधिकं भवति । मार्गदर्शकाच
स्थानिय निझभेमत हानिधेषु च संसारिजीवेषु ये पश्चन्द्रिया अनुक्तभेदाः तद्भेदसूचनार्थ सूत्रमिदमाहुराचार्या:
संज्ञिनः समनस्काः ॥ २४ ॥ सह मनसा बर्तन्ते ये ते समनस्काः। सम्झानं सज्ञा। संज्ञा विद्यते चेपां ते संज्ञिनः। ये समनस्क.स्ते संझिन उन्यन्ते । ते तु पञ्चेन्द्रियय एव । अर्थादेकेन्द्रियादयश्चतुरिन्द्रियपर्यन्ताः संमूच्र्छनोत्पन्नाः पञ्चेन्द्रियाश्च असंजिनो भवन्ति । संज्ञिनां शिक्षालाप ग्रहणादिलक्षणा किया भवति । 'असंजिना शिक्षालापग्रहणादिकं न भवति । असंज्ञिनामपि अनादिकालविषया- १० नुभवनाभ्य सदा दाहारंभयमैथुनपरिग्रह लक्षणोपलक्षिताश्चतस्रः संज्ञाः अभिलाषप्रवृत्त्यादिकञ्च संगच्छत एब, किन्तु शिक्षालाप ग्रहणादिकं न घटते ।
'अथ संसारियां "सर्वा गतिः शरीरसम्बन्धाद्' भवति । शरीरं च मुक्ते सति मृती प्राप्ताय मुत्तरशरीरर्थिनमनं जीवस्य न सङ्गच्छते शरीराभायात् सिद्धरत्' इत्यारेकायो सूत्रमिदमाहुराचार्याः
विग्रहगनी कर्मयोगः ॥ २५ ॥ विग्रहः शरीरम् . तदर्थ गतिविग्रहगतिः, तस्यां विग्रहगती। कमभिर्योगः कर्मयोगः । यदा आमा एक शरीरं परित्यज्य उत्तरशरीरं प्रति गच्छति तदा कार्मणशरीरेण सह योगः सङ्गतिवत्तते । तेनायमर्थः-कार्मणशरीराधारण जीयो गत्यन्तरं गच्छति । अथवा विरुद्धो ग्रहो ग्रहणं विग्रहः, कर्मशरीरग्रहगेऽपि नोकर्मलक्षणशरीरपरित्याग इत्यर्थः। विग्रहेण गतिः २० विग्रहगतिः । एकस्य परिहारेण द्वितीयस्य प्रणेन गतिर्विग्रहगतिः, तस्यां विरहगती । तर्हि कर्मयोगः क इति चेत् ? उच्यते-निखिल शरीराकुरबीजभूतं कामगं वपुः कर्म इति कथ्यते । तहिं योगः कः ? वाङ्मनसकायवर्गणाकारणभूतं जीवप्रदेशपरिस्पन्दनं योगः कथ्यते । कर्मणा विहिता योगः कर्मयोगः स कर्मयोगो विग्रहगंतावुत्तरशरीरप्रहण भवति । तेन कमयोगेन कर्मकृतात्मप्रदेशस्पन्दनेन कृत्वा कर्मादानं देशान्तरसंक्रमणश्च भवतीति स्पष्टार्थः। २५
अत्राह कश्चिन्-जीवपुद्रलानां गतिं कुर्वतां देशान्तरसङक्रमणं किमाकाशप्रदेशक्रमवृत्त्या भवति, आहोस्विबिशेपेण अक्रमेणापि भवति इत्याशङ्कायां सूत्रमिदमाहुराचार्याः
. ..---.. १ अन्यपापि नं- आ०, ५०, ज०, ६० | २ - रनिदान- प्रा. ब०, जरु. १ । ३ -हणल- आ०, ब, ज०,०। ४ सर्वगति - भा., वाद, ज . | ५ -न्याम-ता। ६ -गती म-ता। ७ अनुक्रो- आ.व., द, ज० ।