________________
तत्त्वार्थवृत्ती
| १३३
प्रतीत्यनतिक्रमेण त्यर्पणात द्रव्यपर्यायाद्यर्पणान् सान्यविशेपयाथात्म्य प्रापणप्रवणप्रयोगो नय उच्यते । अस्यायमर्थः - साध्यविशेषस्व नित्यत्वाऽनित्यत्वादेः याथः स्यप्रापणप्रवणप्रयोगो यथा स्थितस्वरूपेण प्रदर्शन समर्थ व्यापारो नय उच्यते । ज्ञातुरभिप्राय इत्यर्थः । स नयो द्विप्रकारःद्रव्याथिक पर्यायार्थिकमेदात् । द्रव्यं सामान्यमुत्सर्ग अनुवृत्तिरिति यावत् द्रव्यमर्थो विषयो मार्गदर्शक :- आचार्य खुलवा लिए। जर्याहोरविशेषः अपवादो व्यावृत्तिरिति यावत् पयोऽर्थो विपयो यस्य स पर्यायार्थिकः । तयोविकल्पा नैगमादयः । नैगमसहव्यवहारास्त्रयो नया द्रव्यार्थिका वेदितव्याः । ऋजुसूत्रशब्दसमभिरुदेवम्भूतार चत्वारो नयाः पर्याय. थिंका ज्ञानीयाः ।
1
इदानीं नयानां विशेषलक्षणमुच्यते । अनभिनिवृत्तार्थः - अनिष्पन्नार्थः, सङ्कल्पमात्रआही नैगम उच्यते । तथा चोदाहरणम् -- कश्चित्पुमान् करकृतकुठारो वनं गच्छति, तं १० निरीक्ष्य कोऽपि पुच्छति यं किमर्थं ब्रजसि ? स प्रोवाच - अहं प्रस्थमानेतुं गच्छामि । इत्युक्ते तस्मिन् काले प्रस्थ पर्यायः सन्निहितो न वर्त्तते, प्रस्थो घटयित्वा धृतो न वर्त्तते । किं तहिं तदभिनिवृत्तये - प्रस्थनिष्पत्तये संकल्पमात्रे दार्वानयने प्रस्थव्यवहारो भवति । एवमिन्धनजलानाद्यानयने कश्चित् पुमान् व्याप्रियमाणो वर्त्तते स केनचिदनुयुक्तः किं करोपि त्वमिति । सेनोच्यते--अमोदनं पचामि । न च तस्मिन् प्रस्तावे ओदनपर्य्यायः सन्निहितोऽस्ति । किं १५ तहिं ? ओदनपचनार्थं व्यापारोऽपि ओदनपचनमुच्यते । एवंविधो लोकव्यवहारोऽनभिनिवृत्तार्थ :- अनिष्पन्नार्थः सङ्कल्पमात्रविषयो नैगमनयस्य गोचरो भवति । १ ।
स्वजात्यविरोधेनैकत्र उपनीय पर्यायान् आक्रान्तभेदान् विशेषमकृत्वा सकल ग्रहणं सह उच्यते । यथा सदिति प्रोक्तं वाग्ज्ञानप्रवृत्तिलिङ्गानुमितसत्ताधारभूतानां विश्वेषां विशेषमकृत्वा सत्सम्प्रद्दः । एवं द्रव्यमित्युक्ते द्रवति गच्छति तांस्तान् केवलिप्रसिद्ध पर्यायानिति द्रव्यम्, २० जीवाजीवतद्दप्रभेदानां समहो भवति । एवं घट इत्युक्ते घटबुद्धयभिधानानुगमलिङ्गानुमित सकलार्थः हो भवति । एवंविधोऽपरोऽपि समयस्य गोधरो वेदितव्यः ॥ २ । सङ्प्रहृन्नयविषयीकृतानां सङ्ग्रहनयगृहीतानां सम्मन यक्षिमानामर्थानां विधिपूर्वकमहरणं भेदेन प्ररूपणं व्यवहारः । कोऽसौ विधिः ? सहनयेन यो गृहीतोऽर्थः स विधिरुच्यते, यतः सङ्ग्रह पूर्वेणंत्र व्यवहारः प्रवर्त्तते । तथा हि- सर्वसमद्देण यद्वस्तु २५ सङ्गृहीतं तद्वस्तु विशेषं नाऽपेक्षते, तेन कारगेन तद्वस्तु संव्यवहाराय समर्थ न भवतीति कारणात् व्यवहारनयः समाश्रीयते । 'यत्सद्वर्त्तते तत्किं द्रव्यं गुणो वा यदूद्रव्यं तञ्जीबोजीवो वा' इति संयवहारो न कर्त्तुं शक्यः । जीवद्रव्यमित्युक्ते अजीवद्रव्यमिति चोके व्यवहार आश्रिते ते अपि द्रे द्रव्ये सहनयगृहीते संव्यवहाराय न समर्थं भवतः, सद देवनारका दिव्यवहार आश्रीयते घटाविश्व व्यवहारेण आश्रीयते । एवं व्यवहार नयस्ताय३० त्पर्यन्तं प्रवर्त्तते यावत्पुनर्विभागो न भवति । ३ ।
,
"
पूर्वान् व्यवहारनगृहीतान् अपश्च विषयान् त्रिकालागोचरानतिक्रम्य वर्त्तमानकाल
१ द्रव्यं विता | २ - यो वि-१० । ३ -वग्रहणं व्य- भ० द० ० १
७८