________________
१।२७.३१
प्रथमोऽध्यायः अथाऽयधि विषयनिबन्ध उच्यते
रूपिष्यवधेः ॥ २७ ॥ नियमसूत्रमिदम् । अस्यायमर्थः--पिपु पुद्गलेधु पुद्गलसम्बन्धिजीवेषु च अवधेविषयनिबन्यो भवति । 'असर्व पर्यायेपु' इत्यज्यत्र सम्बन्धनीयम् , नेन स्वयो यपर्यायेषु अल्पेषु पर्यापेषु न स्वनन्तेषु पर्यायेष्ववधिः प्रवर्तन । अथ मनःपययस्य विषयनिबन्ध उच्यते
तदनन्तभागे मनापर्ययस्य ।। २८ ॥ तस्य सर्वाधिज्ञानगम्यस्य रूपिद्रव्यस्य यः पर्यायरतस्याऽनन्तभागस्तदनन्तभागः तस्मिन् तदनन्तभागे, मनः पय॑यस्य विषयनिबन्धो भवति सूक्ष्मविषयत्वात् । अन्यत्र च मनापर्ययः प्रवर्तते, अपरेपु भागेषु प्रवर्तत इत्यर्थः । अथ केवलशानस्य विपनियन्ध प्रत्यती महाराज
सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ द्रव्याणि च पर्यायाश्च द्रव्यपर्यायाः, सर्वे च ते द्रव्यपर्यायाः सर्वद्रव्यपर्यायाः, तेषु सर्वद्रध्यपर्यायेषु । सर्वेषु द्रव्येषु सर्वेपु पर्यायेषु च केवलस्य केवलझानस्य विषयनिवन्धो भवति । जीवद्रव्याणि अनन्तानन्तानि ततो प्यनन्तानन्तानि पुद्गलद्रव्याणि अणुरक- १५ न्धभेदयुक्तानि, धर्माऽधर्माकाशानि, कालभासख्येयः, चतुणी त्रिकालसम्बन्धिनः पर्यायाः पृथगनन्ताऽनन्ताः । तेषु सर्वेषु द्रव्यपर्यायेषु अनन्तमहिम केवलज्ञान प्रवरत इति ।
अथ पश्चज्ञानपु कति ज्ञानानि एकस्मिन्नात्मनि युगपद्भयन्तीति प्रश्ने सूबमिदमाहुः
एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुभ्यः ॥ ३० ।।
एकोऽद्वितीय आदिरवन वो येपो तानि एकादीनि एकप्रभृतीनि बानानि । भाज्यानि २० योजनीयानि । युगपत् समकालम् । एकस्मिन्नात्मनि अाचतुर्यः चत्वारि ज्ञानानि यावत् । एकस्मिन जीये पञ्च नानानि युगपन्न भवन्ति । एकं ज्ञानं यदा भवति तदा केवलज्ञानमेव, केवलज्ञानेन क्षायिकेन सह अपराणि चत्वारि ज्ञानानि सायोपशमिकानि युगपन्न भवन्ति । यदा हे ज्ञाने युगपद् भवतस्तदा मतिश्रुते । त्रीणि ज्ञानानि यदा युगपद् भवन्ति तदा मतिश्रुनाऽवधिज्ञानानि भवन्ति, अथवा मतिश्रुतमनःपर्य यज्ञानानि भवन्ति । यदा पारि २५ युगपद् भवन्ति तदा मनिश्रुतावधिमनःपर्ययज्ञानानि भवन्ति । अथ मत्यादीनि ज्ञानान्येव भवन्ति आहोस्बिदन्यथापि भवन्ति इति प्रश्ने सूत्रमिदमुच्यते
मतिश्रु ताऽवधयो विपर्ययश्च ॥ ३१ ॥ मतिश्च श्रुनश्च अधिश्च मतिश्रुताऽवधयः। एते प्रयत्रीणि ज्ञानानि विपर्ययश्च मिथ्यारूपाणि भवन्ति । चकारान् सम्यग्ज्ञानरूपाणि च भवन्ति । सम्यकशब्द आदावेवोक्तः ३.
१ -प्यनन्तानि आ०.६, ६०, ज० ।