SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवृत्तौ [१।२६ पर्ययज्ञानस्य च विशेषो विशुद्ध्यादिभिश्चतुर्भिदितव्यः । तत्र अवधिनानात् मनःपर्यायज्ञानं विशुद्धतरं भवति सूक्ष्मवस्तुगोचरत्वात् । क्षेत्रमयधर्मनःपर्ययज्ञानाद् बहुतरम., त्रिभुवनस्थितपुद्रलपर्यायतत्सम्बन्धिजीवपर्यायझायकत्वात् । मनापर्ययस्य क्षेत्रमल्पम् , उत्कर्षेण मानुषोत्तरशैलाभ्यन्तरवर्तित्वात् । अवधिज्ञानस्य "विषय "रूपिष्ववधेः' ५ [तःसू० १।२७] इत्यनेन वक्ष्यति । मनःपर्ययज्ञानस्य विषयं तदनन्तमागे मनःपर्ययस्य" [त. सू० १।२८ ] इत्यनेन सूत्रेण वक्ष्यति । स्वामित्वमुच्यते-- मनःपर्ययो मनुष्येषूत्पद्यते न देवनारकतिर्यक्षु । मनुष्येष्वपि गर्भजेषूत्पद्यते न सम्मूर्छनजेषु । गर्भजेष्वपि कर्मभूमिजेषत्पद्यते न स्त्रकर्मभूमि जेषु । कर्मभूमिजेष्वपि पर्याप्तवेधूत्पद्यते, न त्वपर्याप्तकेषु । पर्याप्तकेष्वपि सम्यग्द१० टिपू पद्यते, न मिथ्याष्टिसासादनसम्यग्दृष्टिसम्यग्मिध्यादृष्टिषु । सम्यग्दृष्टिप्वपि संयते फूत्पद्यते, न स्वसंयतसम्यग्दृष्टिसंयताऽसंयतेषु । संयतेष्वपि प्रमत्तादिषु क्षीणकपायान्तेत्पद्यते, न सयोगकेवल्ययोगकेवलिषु । प्रमच्चादिष्वपि' प्रबर्द्धमानचारित्रेषूत्पद्यते, न हीयमानचारित्रेषु । बईमानचारित्रेष्वपि सपविधयान्यतमदिपाले प्यते नानृद्धिप्रानेषु । ऋद्धिप्राप्तेष्वपि केपुचिदुत्पद्यते न सर्वेषु । तेन कारणेन विशिष्टसंयमवन्तो मनापर्ययस्य १५ स्वामिनो भवन्ति । अवधिस्तु चातुर्गतिकेषु भयति । इति स्वामिभेदाद् विशेषः । मनःपर्ययज्ञानादनन्तरं केवलज्ञानलक्षणमभिधातुमुचितम् । तदुलक्षय ज्ञानानां विषयनिबन्धपरीक्षणं क्रियते। केवलज्ञानस्य तु लक्षणं "मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच केवलम्" [त. सू. १० १] इति वक्ष्यति । तत्र ज्ञानविषयनिबन्धपरीक्षणे मतिश्रुतज्ञानयोविषयनियन्ध उच्यते ___ मतिश्रुतयोनिबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ मतिश्च श्रुतश्च मतिश्रुते तयोर्मतिश्रुतयोः । निबन्धनं निवन्धः विपनियन्त्रणा विषयनियमो विषयनिर्धारणम् । द्रव्येपु जीवधाऽधर्मकालाकाशपुद्गलेषु । कथम्भूतेषु ? असर्वपर्यायेषु अल्पपर्यायसहितेषु मतिश्रुतविषययोग्यस्तोकपर्यायसहितेषु । "विशुद्धिक्षेत्रस्वामिविषये भ्योऽवधिमनःपर्याययोः" [ तक सू. १।२५] इत्यतो विषयशब्दस्य ग्रहण कर्त्तव्यम् । तत्र २५ पञ्चमी अत्र तु षष्ठी तत्कथं सम्बन्धः ? "अर्थवशाद्विभक्तिपरिणामः" [ ] इति वचनात् पञ्चम्याः पष्ठीत्वेन परियमनम् ।। ननु धाऽधर्मकालाकाशा अतीन्द्रियाः, तेषु द्रव्येपु मतिज्ञानं कथं प्रवर्तते मतिज्ञानस्य इन्द्रियजनितत्त्वात् ? सत्यम् ; अनिन्द्रियाख्यं करणं वर्तते, तेन नोइन्द्रिया चरणक्षयोपशमबलात् तद्महणमवप्रहादिरूप न विरुध्यने । तत्पूर्वक श्रुतझानं तद्विषयेषु ३० नोइन्द्रियविषयद्रव्येषु स्वयोग्येषु प्रवर्त्तत इति । १ -यज्ञेयशा- मा०.०.१०,५०, ज० । २ विषयः रू-ma...ज०।३ -दिक्षीभा०, २०, २०, ४-पि य--आ०,०,१०,ज- 1 ५ नानधिप्रा-१०,१० |
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy