________________
मार्गदर्शक:- आचाया
१।२२ ।
प्रथमोऽध्यायः ____ 'आयुःकर्म-नामकर्मोदयनिमित्तको जीवस्य पर्यायः भव उच्यते । ईग्विधो भवः२ प्रत्ययः कारणं हेतुनिमित्तं यस्यावधेः स भवप्रत्ययः । ईम्बिधोऽवधिवनारवायां देशना हाराज नारकाणाम् । ननु एवं विधस्यावधः यदि भवः कारणमुक्कं तहि कर्मक्षयोपशमः कारणं न भवतिः सत्यम् भवः' प्रधानकारणं भवति यथा पक्षिणामाकाशगमनं भवकारणम् , न तु शिक्षागुणविशेष आकाशगमनकारणं भवति । तथैव देवानां नारकाणां च व्रतनियमादीनामभावेऽपि ५ अवधिर्भवति, तेन कारणेन मुख्यतया भव एवाऽवधेः कारणमुच्यते । क्षयोपशमस्त्वयः साधारणं कारणम् , तत्तु गौणम् , तेन तनोच्यते । अन्यथा भवः साधारणो वर्तते, स तु एकेन्द्रियविकलेन्द्रियाणामपि विद्यत एव तेषामप्यविशेषादयः प्रसङ्गः स्यात् । तथा च देषनारकेषु "प्रकर्षाऽप्रकर्षवृत्तिरवधिर्भवति । देवनारकाणामिति अविशेपोक्तावपि सम्यग्दृष्टीनामेव अवधिभवति मिथ्यादृष्टीनां देवनारकाणामन्येषाश्च विभङ्गः कथ्यते । “अथ कोऽसौ प्रकर्षाऽप्रकर्ष- १० वृत्तिरवधिरिति चेत् ? उच्यते-1 सौधम्मैशानेन्द्रौ प्रथमनरकपर्य्यन्तं पश्यतः । सनत्कुमारमाहेन्द्रौ द्वितीयनरकान्तमीक्षेते । ब्रह्मलान्तवेन्द्रों तृतीयनरकपर्यन्तमीसते । शुक्रसहस्रारेन्द्रौ चतुर्थनरकपर्यन्तं विलायते । आनतप्राणतेन्द्रौ पञ्चमपृथिवीर्य्यन्तं निभालयतः । आरणाच्युतेन्द्रौ पठनरकपर्यन्तं विलोकयतः । नवप्रैवेयकोद्भवाः सप्तमनरकपर्यन्तं निरीक्षन्ते । अनुदिशानुत्तराः सर्वलोकं पश्यन्ति । तथा ''प्रथमनरकनारका योजनप्रमाणं पश्यन्ति । द्वितीय १५ नरकनारका अर्धगव्यूतिहीन योजनं यावत्पश्यन्ति । तृतीयनरकनारका गन्यूतित्रयं पश्यन्ति । चतुर्थनरकनारकाः सार्द्धद्विगम्यूतिपय॑न्तं पश्यन्ति ! पञ्चम नरकनारका द्विगल्यूतिपर्यन्तं पश्यन्ति । पटनरकनारकाः सार्द्धगम्यूतिपयन्तं पश्यन्ति । सप्तमनरकनारका गन्यूतिपर्यन्तं पश्यन्तीति वेदितव्यम् । अथ क्षयोपशमनिमित्तोऽवधिः कथ्यते----
२० क्षयोपशमनिमित्तः षडविकल्पः शेषाणाम् ॥ २२ ॥ कर्मापुद्गलशक्तीनां क्रमवृद्धिः क्रमहानिश्च स्पर्धकं तावदुच्यते । अबधिज्ञानावरणस्य देशघातिरपर्द्धकानामुये सन्ति, सर्वयातिस्पर्द्धकामामुदयाभावः क्षय अत्यते, तेषामेव सर्वघातिस्पर्द्धकानामनुदयप्राप्तानां सदवस्था उपशम उच्यते, अयश्चोपशमश्च क्षयोपशमी, तो निमित्तं कारणं यस्याऽवधेः स क्षयोपशमनिमित्तः । कतिभदः १ षड्विकल्पः । एवं विधोऽवधिः २५ शेषाणां मनुष्याणां तिरश्चाश्च भवतीति चेदितव्यम् । स चावधिः संझिनो पर्याप्तकानाश्च भवति न त्वसझिनां नाप्यपर्याप्तकानां भवति सामर्थ्याभावात् । तेषामपि सोऽवधिः सर्वेषां न
आयुष्कर्म भाल, , द. । २ नवप्रत्ययः ना । ३-वधेयादिम-तर० । ४ तहि क्षयीमा०, 4०, २०, २०, ज० ५ भवः प्रधानं भा--भा०, व, ज० । ५-गमनम् प्रधानकारणं न तु भाग, म०,०,ज० । ७ प्रकारप्रयुत्तिर-आ प०,६०, जय । ८ अत्र को-प० । अथ काऽसौ दः । ५ प्रकप्रति : भा०, 4०.१०,जः । १. महामंध गर० ११-१३ । ११ प्रथमनारका नरकयः-आ०, २० । -गो. जो० गा० ४२३ । १२ स्य देवाघातिस्पर्धकानामुदयाभावः भा०,