________________
६६ तत्त्वार्थवृत्ती
। १२० मतिपूर्वमित्युच्यते । यथा अङ्करः खलु बीजपूर्वको भवति । स चाङ्क सन्तानापेक्षया अपरवीजापेझया अनादिनिधनः कथ्यते ।
__वेदाभिप्रायं जेनः खण्डयति । अपौरुषेयत्वं प्रामाण्यकारणं न भवति । यतः अपीरुषेयः शब्दोऽपि नास्ति। येन पुरुषेण देदाः कृताः स पुमान् भवद्भिर्न स्मयते । यदि वेदकृत्सुमान ५ भवद्भिर्न स्मठते तहि वेदाः 'किमकृता भवन्ति ? तत्र दृष्टान्तः, यदि चौर्यपरदाराद्युपदे. शस्य कर्ता न स्मर्यते तर्हि तदुपदेशोऽपि अपौरुषेयः, तस्यापि "प्रामाण्यप्रसङ्गो भवति । न च वेदोऽकृत्रिमः । तथा चोक्तम्
"वेदे हेतुं तु काणादा वदन्ति चतुराननम् ।
जैनाः कालासुरं बौद्धाश्चाष्टकान् सकलाः सदा ॥१॥" [ १० पौरुषेयस्य श्रुतस्यानादिनिधनस्य च प्रत्यक्षादेः प्रामाण्ये सति को विरोधो वर्तते, न कश्चित् विरोध इत्यर्थः।
अन्नाह कश्चित्-प्रथमसम्यक्त्वोत्पत्तिकाले मतिश्रुतयोयुगपदुत्पत्तिर्भबत्ति कथं मतिपूर्व
श्रुतमिति ? सत्यम् ; सम्यक्त्वस्य समीचीनत्वस्य ज्ञाने तदपेक्षत्वात् सम्यक्त्वापेक्षत्वात् , यादर्शक श्रुतस्य आत्मलाभवन कमलान इति कारणान्मतिपूर्वकत्वव्याघाताभावः । तथा चोक्तम्
"कारणकज्जविहाणं दीवपयासाण जुगवजम्मे वि । जुग जम्मेवि तहा हेऊ गाणस्स सम्मत्तं ॥ [ आरा सा गा० १३ ] “यत्सम्यक्त्वं तन्मतिक्षानं वेदितव्यम् , मानसव्यापारादिति ।
ननु मतिपूर्व श्रुतमिति श्रुतलक्षणं न घटते | कस्मात् ? यतः श्रुतपूर्वमपि" श्रुतं भवति । तद्यथा शब्दपरिणतपुदलस्कन्धात् स्थापितवर्णपदधाक्यादिभावात् चक्षुरादिगोचराम २० आचं श्रुतविषयभावमापन्नात् अव्यभिचारिणः श्रुतात् श्रुतप्रतिपत्तिरिति । यथा विहितसङ्केतो
जनः घटात् जलघारणादिकार्य सम्बन्ध्यन्तरं प्रतिपद्यते धूमादेरग्न्यादिद्रव्यवन् । अस्यायमर्थःघट इत्युक्त घकारटकारविसर्गात्मकं शब्दं मतिज्ञानेन प्रतिपद्यते । तदनन्तरं घदात्-घटशब्दात् घटार्थ श्रुतज्ञानेन प्रतिपद्यते । तस्मादपि घटार्थात् जलधारणादिकार्य श्रुतझानेन प्रतिपद्यते । तथा चक्षुरादिविषयाद् धूमादेस्तत्रापि धूमदर्शनं मतिझानम् । तस्मादग्निविषयज्ञानं श्रुतज्ञानम् ।
१-ति अ-आ० । २ किं न कृता प्रा० । ३-देशको ज० । ४ "चौर्याधुपदेशस्यारमर्यमाणकर्मकस्य प्रामाण्यप्रसङ्गात् ।"-स. सि०पू० ४८ । “तस्मादपौरुषेयत्व स्यादन्याऽप्यनराश्रयः । म्लेच्छादिव्यवहाराणां नास्तिक्यवचसामधि ।। अनादित्वाद् भवेदेवं पूर्वसंस्कारमन्ततः । तारा पौरुषेयत्वं कः सिद्धऽपि गुणा भवेत् ।।"-प्रभागवा. ३१२४५-४६ । अष्टश, अष्टस० पृ. २३८ । सिद्धिवि० पृ. ४०८ । ५ आत्मनो लाभः आ०, २०, ५०, ज० । ६ क्रमयान, मति -भा०, ६., ब०, ज० । ७ कारणकार्यविधानं दीपप्रकाशयोर्युगपज्जन्मन्यपि । युगपजन्मन्यवि तथा हेतुनिरुप सम्यक्त्वम् ।। ८ तत् सम्य-भा०, २०, ५०, ज० । ९ श्रुतपूर्वमित्यपि श्रुतं भा० । १५-भावापन्नात् आ० |