________________
१।११-१२ |
प्रथमोऽध्यायः
५९
प्रकाशकमित्यवगन्तव्यम् । अवश्यमेव चेदमङ्गीकर्तव्यम् । किंषत् ? प्रमेयवत्। यथा ममेयं वर्तते तथा प्रमाणमस्ति । यदि प्रमाणस्य प्रमाणान्तरं परिकल्प्यते तर्हि स्वाधिगमस्याभावो भवति, प्रमाणं निजस्वरूपं न जानाति । तथा सति स्मृतेरभावः स्यात् स्मृतेरभावात् व्यवहारविच्छेदो भवेत् ।
'आये पवेशांकात्यक्षमाचात् श्रक्षिशणाभेाहाद्विवचननिर्देशो -- ५ तस्यः । स च द्विवचननिर्देशोऽपरप्रमाणसं ख्याविच्छेदार्थः ।
"प्रत्यक्षञ्चानुमानश्च शाब्द चोपमया सह ।
अर्थापरिभाश्च षट् प्रमाणानि जैमिनेः || १ || " [ष० समु० श्लो० ७०] इति श्लोकोक्कोपमानार्थापत्तिप्रभृतीनां प्रत्यक्षपरोक्षप्रमाणद्वयेऽन्तर्भावात् ।
अथ प्रागुक्तपवविधज्ञानस्य प्रमाणद्वयान्तः पतितस्य अनुमानादिप्रमाणकल्पनानिरासार्थं १०
प्रमाणमाह
आद्ये परोक्षम् ॥ ११ ॥
आदौ भवमाद्यम् । आद्यश्च आय आये । मतिज्ञानश्रुतज्ञाने द्वे परोक्षं प्रमाणं भवति । 'आये' इत्युक्ते प्रथमे । मतिश्रुतयोः प्रथमत्वं कथम् ? सत्यम् प्रथमं मतिज्ञानं तन्मुख्यम्, तस्य समीपवर्त्तित्वादुपचारेण श्रुतमपि प्रथममुच्यते । द्विवचननिर्देशसम्मर्थ्यात् १५ गौणस्यापि श्रुतज्ञानस्य अद्यत्वेन ग्रहणं वेदितव्यम् । एतत् मानद्वयं परोक्षं प्रमाणं कस्मादुच्यते ? इन्द्रियानिन्द्रियाणि पराणि प्रकाशादिकं च, आदिशब्दाद् गुरूपदेशादिक परम् मतिश्रुतज्ञानावरणक्षयोपशमञ्च परमुच्यते, तत्परं बाह्यनिमित्तमपेक्ष्य अक्षरयात्मनः उत्पद्यते यत् ज्ञानद्रयं तत्परोक्षमित्युच्यते, “तदिन्द्रियानिन्द्रियनिमित्तम्" [सू० १११४ ] "श्रुतमन्तिन्द्रियस्य " [ त सू० २।२१ ] इति वचनात् । उपमानमागमादिकं च प्रमाणं २० परोक्ष एव प्रमाणेऽन्तर्भूतं ज्ञातव्यमिति ।
अथ किं प्रत्यक्षं प्रमाणमिति प्रश्ने सूत्रमिदमुच्यते
प्रत्यक्षमन्यत् ॥ १२ ॥
अक्ष्णोति व्याप्नोति जानाति वेत्तीत्यक्ष आत्मा तमक्षमात्मानमवधिमनः पर्य्ययापेक्षया परिप्राप्तक्षयोपशमं केवलापेक्षया प्रक्षीणाचरणं वा प्रतिनियतं प्रतिनिश्चितं प्रत्यक्षम् । अन्यत् २५ अवधिमनः पर्य्ययकेवलज्ञानत्रयं प्रत्यक्षं प्रमाणं भवति ।
अत्राह कञ्चिन्-अवधिदर्शनं केवलदर्शनमपि अक्षमेव आत्मानमेव प्रतिनियतं वर्तते, तेन कारणेन तदपि प्रत्यक्षं वक्तव्यम् सत्यम् ज्ञानमित्यनुवर्त्तते । कस्मिन् प्रस्तावे ज्ञानमित्यनुवर्तते ? "मतिश्रुतावधिमनः पर्य्ययकेवलानि ज्ञानम् ” [ त० सू० ११९ ] इत्यत्र सूत्रे ज्ञानस्य ग्रहणं वर्त्तते, तेन कारणेन दर्शनस्य व्युदासः । दर्शनं न प्रत्यक्षं प्रमाणमित्यर्थः । ३०
१ स्मृतेन भावः ता० । २ करिंगश्चित् आ०, ६०, ब० जे० ।