________________
312]
१५
प्रमाणनयैर्निर्देशादिभिश्च सम्यग्दर्शनादीनां जीवादीनाञ्चाधिगमो भवति । किन्तु सत्संख्याक्षेत्रस्पर्शनकालान्तरभावात्पबहुत्वैश्च अष्टभिरनुयोगैञ्चाधिगमो भवति ।
ननु निर्देशात् सत् सिद्धम्, विधानात् संख्यापि ज्ञायते, अधिकरणात् क्षेत्रस्पर्शनareकारो भविष्यति, स्थितिग्रहणात् कालो विज्ञायते, नामादिसङ्गृहीतो भावश्च वर्तते, पुनः सदादीनां ग्रहणं किमर्थम् ? साधूक्तं भवता । शिष्याभिप्रायवशादेषां प्रणम् । केचि ५ च्छिष्याः संक्षेपरुचयः केचिद्विस्तर प्रियाः अन्ये मध्यमत्व सन्तोषिणः । सत्पुरुषाणां तूयमः सर्वजीवोपकारार्थ इति कारणादधिगमस्त्राभ्युपायः कृतः । अन्यथा प्रमाणन ये- ' रेवाधिगमो भवति, अपर प्रणमनर्थकं भवति ।
रात्र तावज्जीवद्रव्यमुद्दिश्य सदाद्यधिकारो विधीयते । ते तु जीवाश्चतुर्दशं गुणस्थानेषु तिष्ठन्ति । कानि तानीति चेत् ? उच्यते - मिध्यादृष्टिः || १ || सासादनसम्य- १० ष्टिः || २ || सम्यमिध्यादृष्टिः ॥ ३ ॥ असंयतसम्यग्दृष्टिः || ४ || देशसंयतः ॥ ५ ॥ प्रनत्तसंयतः || ६ || अप्रमत्तसंयतः ॥ ७ ॥ अपूर्वकरणगुणस्थाने उपशमकः क्षपकः ॥ ८ ॥ अनिवृत्तिबादरसाम्परायगुणस्थाने उपशमकः क्षपकः ॥ २ ॥ सूक्ष्मसाम्परायगुणस्थाने उपशमकः क्षपकः || १८ || उपशान्तकषायवीतरागछद्मस्थः ॥ ११ ॥ क्षीणकषायवीतरागछद्मस्थः || १२ || सयोगकेवली ॥ १३ ॥ अयोगकेवली चेति ॥ १४ ॥ अमीषां जीव- १५
प्रथमोऽध्यायः
समासानां प्ररूपणार्थं चतुर्दश मार्गणास्थानानि ज्ञातव्यानि । तथा हि - गतयः ॥ १ ॥ मार्गदर्शक:- आचार्य श्री सुविधिसागर जी महाराज
इन्द्रियाणि || २ || कायाः ॥ ३ ॥ योगाः ॥ ४ ॥ वेदाः ॥ ५ ॥ कषायाः || ६ || ज्ञानानि || ७ || संयमाः ॥ = ॥ दर्शनानि ।। ९ ।। लेश्याः ॥ १० ॥ भव्याः ॥। ११ ॥ सम्यक्त्वानि ॥ १२ ॥ संज्ञाः ॥ १३ ॥ आहारकाचेति ॥ १४ ॥
गुणवनेषु सत्प्ररूपणा द्विप्रकारा सामान्यविशेषभेदात् । तत्र सामान्येन अस्ति २० मिथ्यादृष्टिः, अस्ति सासादनसम्यन्द्रष्टि, अस्ति सम्यग्मियादृष्टिः अस्ति असंयतसम्यम्हापेः, अस्ति संत्रतासंयतः अस्ति प्रमत्तसंयत इत्यदि 'चतुर्दशसु गुणस्थानेषु वक्तव्यम् ! विशेषेण गत्यनुवादेनं नरकगतौ सप्मस्वपि पृथिवीषु मिध्यादृष्टयादिचत्वारि गुणस्थानानि वर्तन्ते । तिर्य्यग्गतौ देशसंयतान्वानि पञ्च गुणस्थानानि सन्ति | मनुष्यगतौ चतुर्दशापि जाति । देवगती आद्यानि चत्वारि विद्यन्ते ।
एकद्वित्रिचतुरिन्द्रियेषु प्रथमं गुणस्थानं धियते । पञ्चेन्द्रियेषु
इन्द्रियानुवादे चतुर्दशाप्यासते ।
कायानुवादे प्रथिव्यादिपञ्चकायेषु प्रथमं गुणस्थानं जागर्ति । त्रसकायेषु चतुर्दशापि विद्यन्ते |
१- नयैरधि-मा०, ब०, द० । २- दशगुण-आ०, ब०, १०, १० । ३ उच्यन्ते श्र०, ३० द० । ४ - जी अमी ला०, ब०, १० । ५ षट्खण्डा० १२-४ । ६ - कति आ०, २००७ षट्खं० ११८-२२८ चतुर्दश गुण-भा०, ब०, २०, ३० । ९ षट्सं०] १।२५-२९ | १० षट्खं०] १३६, ३७ | ११ पटुखं० १ ४२, ४४ ॥
२५