________________
१३]
प्रथमोऽध्यायः मानसागन्तुवेदनाप्रसारात संसारायं संवेगः । सर्वेषु प्राणिषु चित्तस्य दयार्द्रत्वमनुकम्पा । आप्तश्रतंत्रततत्त्वेषु अस्तित्वयुक्तं मन आस्तिक्यमुच्यते । तथा चोक्तम्--
"यद्रागादिषु दोषेषु चित्तवृत्तिनिवहंणम् । तं प्राहुः प्रशमं प्राज्ञाः समस्तवतभूषणम् ॥ १॥ शारीरमानसागन्तुवेदनाप्रमवाद्भवात् । स्वमेन्द्र जालसङ्कल्पानीतिः संवेग उच्यते ॥ २ ।। सच्चे सर्वत्र चित्तस्य दयार्द्रत्वं दयालयः । धर्मस्य परमं मूलमनुकम्पा प्रचक्षते ॥३॥
आप्ते श्रुते यते तस्ते चित्तमस्तित्वंसंयुतम् । मार्गदर्शआस्तिक्यमास्तिरुतवासक्तियक्तिधरे हो।। ४ ।"
[यश उपृ३२३ ] इति ।। वीतरागं सम्यग्दर्शनम् आत्मविशुद्धिमात्रम् । 'अथेदशं सम्यग्दर्शनं जीवादिपदार्थगोचरं कथमुत्पद्यते' इति प्रश्ने सूत्रमिदं 'ब्रुवन्ति--
तन्निसर्गादधिंगमावा ।। ३ ।। तत्-सम्यग्दर्शनम, निसर्गात् स्वभावात् उत्पद्यते । वा-अथवा, अधिगमात्- १५ अर्थावबोधात उत्पद्यते ।
ननु निसर्गज सम्यग्दर्शनम् अर्थाधिगमं प्राप्योत्पद्यते, न या ? यदि अर्थाधिगमं प्राप्योत्पद्यते; तहिं तदपि निसर्गजमपि अधिगमजमेव भवति, अर्थान्तरं न वर्तते, किमर्थं सम्यग्दर्शनोत्पत्तेद्वैविध्यम ? अविज्ञाततत्वस्य अर्थश्रद्धानं न सङ्गच्छत एव | सत्यम् । निसर्गजऽधिगमजे च सम्यग्दर्शनेऽन्तरङ्गं कारणं दर्शनमोहस्योपशमः दर्शनमोहरप क्षयो २० या दर्शनमोहस्य श्योपशमो वा सहशमेव कारणं वर्तते । तस्मिन् सहशे कारणे सति यत्सम्यग्दर्शनं बायोपदेशं विनोत्पद्यते तन् सम्यग्दर्शनं निसर्गजमुच्यते । यस् सम्यग्दर्शनं परोपदेशेनोत्पद्यते तदधिगमजमुच्यते । नैसर्गिकमपि सम्यग्दर्शन गुरोरक्लेशकारित्वात् स्वाभाविकमुच्यते न तु गुरूपदेशं विना प्रायेण तदपि जायते ।
ननु तच्छन्दस्य ग्रहणं किमर्थम् ? "अनन्तरस्य विधिः प्रतिषेधो वा" [पा. २५ महा० १.२४ ] इति परिभापणात 'निसर्गादधिगमाद्वा' ईदृशेनैव सूत्रेण अनन्तरं सम्यग्दर्शनमेव लभ्यते तेन सूत्र तन्छब्दस्य वयच॑म् ; सत्यम् ; यथा सम्यग्दर्शनमनन्तर वर्तते सथा मोक्षमार्गशब्दोऽपि प्रत्यासन्नो वर्तते, "प्रत्यासत्तैः प्रधानं बलीयः" [ ] इति परिभाषणात् मोक्षमार्गो निसर्गादधिगमावा भवतीत्यर्थ उत्पद्यते । तच्छब्देन तु सम्यग्दर्शनमेवाकृष्यते तेन तच्छन्दग्रहणे दोषो नास्ति ।
-तत
1-सत-व० । २“प्रभवाद्भयात्"-या। -दातिः सा. ४-स्वसंम्तुनम तार, प० । ५ अथेदं स-मा०, ०। अवन्त्याचार्याः आत, द०, ब० । न च आ०, ब०, २०, ५० । 'दशनमोहस्य क्षवो वा' इति नास्ति ता०। ९ सदृमाका-।