________________
तत्त्वार्थवृत्ती
[२१-२ अथ 'येन समस्तेन मोक्षो भवति तत्किम् ?' इति प्रश्ने सूत्रमिदमाचार्याः प्राहुः
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥१॥ सम्यक्झाब्दः प्रत्येकं प्रयुज्यते । तेन सम्यग्दर्शनं च सम्यग्नानं च सम्यक्चारित्रं च सम्यग्दर्शनज्ञानचारित्राणि, समीचीनानि सम्यग्दर्शनशानचारित्राणीत्यर्थः । तत्र जीवादि५ पदार्थानां यथावत् प्रतिपत्तिविषयं श्रद्धानं सम्यग्दर्शनम् । येन येन प्रकारेण जीवादयः पदार्था व्यवस्थिता वर्तन्ते तेन तेन प्रकारेण मोहसंशयविपर्ययरहित परिज्ञानं सम्यरहानम् । मोह इति अनध्यवसाय पर्यायः। संशयः सन्देहः । विपर्ययो विपरीतत्वम् । तैः रहितं सम्यग्ज्ञानमित्यर्थः । संसारहेतुभूतक्रियानिवृत्त्युयतस्य तस्वन्नानवतः पुरुषस्य कर्मा
दानकारणक्रियोपरमणमज्ञानपूर्वकाचरणरहितं सम्यक्चारित्रम् । एतानि समुदितानि मार्गदर्शकमोक्षम्याचा अधिवाहासागर जी महाराज
अथ सम्यग्दर्शनलक्षणोपलक्षणार्थ सूत्रमिदं निर्दिशन्ति सूरयः
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २॥ योऽर्थो यथा व्यवस्थितस्तस्यार्थस्य तथाभावो भवन तत्वमुच्यते । अर्यते गम्यते ज्ञायते निश्चीयते इत्यर्थः । “उपिकृषिगतिभ्यस्थः।" [फात० उ० ५।६३ ] तत्त्वेन अर्थः १५ तत्त्वार्थः । तत्त्वमेव वाऽर्थस्तत्त्वार्थः । सत्त्वार्थस्य परमार्थभूतस्य पदार्थस्य 'श्रद्धा रुचिः
तत्त्वार्थश्रद्धानं सम्यग्दर्शनं भवतीति वेदितव्यम् । तत्त्वार्थस्तु जीवादिश्यते । न तु अर्थशब्देन प्रयोजनाभिधेयधनादिकं मालम् , तच्छद्धानस्य मोक्षप्राप्तेरयुक्तस्यात् । अर्थशब्दस्यानेकार्थत्यम् । तदुक्तम्
"हतौ प्रयोजने वाच्ये निवृत्तौ विषये तथा ।
प्रकारे वस्तुनि द्रव्ये अर्थशब्दः प्रवर्तते ॥" [ ] ननु "दर्शनमवलोकनं श्रद्धानं कथं घटते ? सत्यम् धातूनामनेकार्थत्वात् । रुच्यर्थे दृशिधातुर्यर्तते । 'दशिर् प्रेक्षणे' प्रेक्षणार्थस्तु प्रसिद्धोऽप्यर्थोऽत्र मोक्षमार्गप्रकरणे स्यज्यते। तत्वार्थश्रद्धानमात्मपरिणामः सिद्धिसाधनं घटते । स तु परिणामो भन्यात्मन एव
भवति । प्रेक्षणलक्षणस्त्वर्थः चक्षुरादिनिमित्तो वर्तते । स तु सर्वेषां संसारिणां जीवानां २५ साधारणोऽस्ति । स मोक्षमार्गावययो न सङ्गच्छते ।
तत्सम्यगदर्शनं द्विप्रकारम्-सरागम, वीतरागञ्च । तत्र सरागं सम्यग्दर्शनं प्रशमसंवेगानुकम्पास्तिक्यैरभिव्यज्यते । तत्र रागादिदोषेभ्यश्चेतोनिवर्तनं प्रशमः । शारीर
-... -- ---- ----- -- - - -य: संध-भा०, २०, ६० । २-रममज्ञा-भान, य., २०, ५०। ३ भवन्ति ता० । ५ भवो सा०। भवं त-व०। ५ उपिअपिग-श्रा, ब.। उरित्राषि-१०। ६ श्रद्धार्थ रू-ता.। ननु अ-आ०, ०। ८ प्रयोजनादिश्रद्धानस्य । १ तुलना-"अर्थोऽभिधेयरैवस्तु प्रयोजननिवृत्ति"--अमरः, नाममा । "अर्थः प्रयोजने वित्ते हेत्वभिप्रायवन्तुषु । शब्दाभिधये विपये स्यानिवृत्तिप्रकारयोः ।।"-विश्वलो। १. सम्यग्दर्शनं प०।