________________
४२२)
तत्त्वार्थश्लोकवार्तिकालंकारे
निर्जरादेश मोक्षात्मा सन्मार्गफलमेव सा नत्रयात्मकमार्गस्य विघातकृदितीरितं ॥ ६ ॥
ननु च मिथ्यादर्शनादि हेत्वभावादभिनवकर्मादानाभावः पूर्वोदित निर्जराहेतु सन्निधाने चार्जितकर्मनिर्जरा इति । बन्धहेत्वभावनिर्जराभ्यां प्रादुर्भवन् मोक्षः किं लक्षण इत्याह । कृत्स्नकर्मविप्रमोक्षो मोक्ष इति तद्वयाख्यानार्थ माह, -
-
विशेषेणप्रकृष्टेन मोक्षः स्यात्कृत्स्नकर्मणां
जीवस्यात्यन्त विश्लेषः स मोक्ष इति लक्ष्यतां ॥ ७ ॥
ननु च कृत्स्नकर्मसन्तानस्याद्याभावादन्ताभाव इति चेत् न बीजांकुरसन्तानेनानेकान्तात् उक्तं च
दग्धे बीजे यथात्यन्तं प्रादुर्भवति नांकुरः
कर्मवीजे तथा दग्धे नारोहति भवांकुरः ॥ ८ ॥ इति
केन रूपेण कर्मपुद्गलद्रव्यस्य क्षय इति चेदमिधीयते । कृत्स्नस्य कर्मत्वेन क्षयः कर्मणो न पुद्गलत्वेन । सतो द्रव्यस्य द्रव्यत्वेनात्यन्त विनाशायोगात् । तदनुत्पत्तिमत्त्वा त्सर्वदास्थितेरेव प्रसिद्धेः । कर्मत्वपर्यायेण तु तस्यात्मपरिणामविशेषादुत्पत्ति सिद्धेः युक्तो विनाश इति सिद्धः कृत्स्नकर्मक्षयो मोक्षः भावसाधनो मोक्षशद्वो द्विविषयो विप्रयोगक्रियामात्रगतेः । " मोक्ष आसने " इत्यस्य धातोर्घञि सति मोक्षणं मोक्ष इति व्युत्पत्तेः । मोक्तव्य मोक्षकापेक्षत्वाद्विप्रयोग क्रियामात्रस्व गतेः । कृत्स्नशद्वेनाष्टविधस्य कर्मणः सद्बन्धोदयो दीरणव्यवस्थस्य ग्रहणं । तत्क्षयविभागो गुणस्थानापेक्षः प्रवचनान्तेयः ।
इसका देशभाषा में अर्थ इस प्रकार है कि इसके अनन्तर परममोक्ष किन कारणों से उपजेंगा ? इस सिद्धान्तकी प्रतिपत्ति करानेके लिये सूत्रकार महाराज इस अगिले सूत्रको कहते हैं--सूत्रार्थ यों है कि बन्धके हेतुओंका अभाव और निर्जरासे सम्पूर्ण कर्मोंका निश्शेषरूपेण प्रागभावानधिकरण होकर निरन्त छूट जाना मोक्ष है । यहांपर कोई विनीत शिष्य प्रश्न उठाता है कि यह बन्धका हेतु क्या पदार्थ है ? और उस बन्ध हेतुका अभाव भी क्या है ? बताओ । ऐसी विनीत शिष्यकी जिज्ञासा प्रवर्तनेपर ग्रन्थकार इस अग्रिम वार्तिकको कह रहे हैं । पूर्व अध्यायोंमे आस्रवको कहा जा चुका है। उसके अनेक भेद हैं । आस्रवही बन्धका हेतु है । सम्पूर्ण कर्मोंके उस आस्रवका