________________
३७४)
तत्त्वार्थश्लोकवातिकालंकारे
तीर्थ तीर्थकरापेक्षं धर्ममार्गप्रवर्तनं । लिंगं तु द्रव्यभावाभ्यां द्विधा संयतलक्षणं ॥ ३ ॥ योगप्रवृत्तिराख्याता कषायरनुरञ्जिता । लेश्या षोढात्र कृष्णादि द्विधा शुद्धतरत्वतः ॥ ४ ॥ उपपादं पुनर्जन्मस्थानानि स्युर्यथात्मनां । संयमस्येहसामर्थ्यादन्यस्याप्रस्तुतत्वतः ।।५।। कषायोत्थान्यसंख्यया न्यकषायोस्थितानि च । जघन्यमध्यमोत्कृष्टस्वभावानि व्यपेक्षया ।।
तत्र पुलाकवकुशप्रतिसेवनाकुशीलाः सामायिकछेदोपस्थापनयोर्वर्तन्ते । कषायकुशीलाः परिहारविशुद्धिसूक्ष्मसांपराययोः पूर्वयोश्च निर्ग्रन्थस्नातका यथाख्यात संयमे । श्रुते पुलाकवकुशप्रतिसेवनाकुशीला उत्कर्षणाभिन्नाक्षरदशपूर्वमात्र, कषायकुशीला निग्रन्थाश्च चतुर्दशपूर्वप्रमाणे । जघन्येन पुलाकानां श्रुतमाचारवस्तु, वकुशादीनामष्टौ प्रवचनमातरः, अपगतश्रुताः स्नातकाः केवलित्वात् । प्रतिसेवना पुलाकस्य पंचसु मूल. व्रतेषु रात्रि (राज्य) भोजनषष्ठेषु ( वर्जेषु ) पराभियोगात् बलात्संभवति । उपकरण. वकुशस्योपकरणसंस्कारप्रतिसेवना। शरीरवकुशस्य शरीरसंस्कारप्रतिसेवना । उत्तर. गुणेष्वेव प्रतिसेवना कुशीलस्य, कषायकुशीलादयः प्रतिसेवनारहिताः । तीथं सर्वतीर्थ करेषु । सर्वेषां द्रव्यलिगं सर्वे निर्ग्रन्थाः भावलिगं प्रतीत्य भाज्याः । लेश्या पुनस्तस्योसरास्तिस्त्रः । वकुशप्रतिसेवना, कुशीलयोः षडपि । कषायकशीलस्योत्तरास्तिस्रा. परिहारविशुद्धिश्च । सूक्ष्मसांपरायस्य निग्रंथस्नातकयोश्च शुक्लव, अयोगिनोऽलेश्याः । पुलाकस्योत्कृष्टोपपादा देवेषुत्कृष्टस्थितिकेषु सहस्त्रारे । बकुशप्रतिसेवनाकुशीलयो-वि. शति सागरोपमस्थितिकेषु, आरणाच्युतकल्पयोः कषायकुशीलयोनिर्ग्रन्थयोस्त्रयस्त्रिशत्सा. गरोपमरितिकेषु सर्वार्थसिद्धौ सर्वेषामपि जघन्योपपादः सौधर्मे द्विसागरोपमस्थितिषु । स्नातकस्य निर्वाणं । संयमस्थानेष्वसंख्येषु कषायनिमित्तेषु सत्सु सर्वजघन्यानि लब्धिस्थानानि पुलाककषायकुशीलयोस्तौयुगपदसंख्येयस्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते । ततः कषायकुशीला गच्छत्येकाकी । ततः कषायकुशीलप्रतिसेवनाकुशीलवकुशाः महासंख्येयाथानानि गच्छन्ति ततो वकुशो व्युच्छिद्यते ततो संख्येयस्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोप्यसंख्येयस्थानानि गत्वा कषायकुशीलो व्युच्छिद्यते ।