________________
नवमोध्यायः
कुर्यात् । लाभाद्वालोभः प्रवर्तते । इति चेलग्राहिणाममीदोषाः अचेलतायां पुनरित्थंभूतदोषानुत्पत्तिः । ध्यानस्वाध्याययोरविघ्नता च । सूचीसूत्रकर्पटादिपरिमार्गणसीवनादि व्याक्षेपेण तयोविघ्नो भवति । निःसंगस्य तथाभूतव्याक्षेपाभावात् । सूत्रार्थपौरुषीषु निर्विघ्नता । स्वाध्यायस्य ध्यानस्य च भावना। ग्रंथत्यागश्च गुण: । बाह्यचेलादिग्रन्थत्यागोऽभ्यन्तरपरिग्रहत्यागमूल: । यथा तुषनिराकरणमभ्यन्तरमलनिरासोपायः । अतुषं धान्यं नियमेन शुद्धति । भाज्या तुषस्य शुद्धिः । एवम् चेलवति नियमादेव भाज्या। सचेले वीतरागद्वेषता न गुणः । सचेलोहि मनोज्ञे वस्त्रेवतो भवति, दुष्यत्यमनोज्ञे । बाह्यद्रव्यालम्बनौ हि रागद्वेषौ तावसति परिग्रहे न भवतः । कि च शरीरे अनादरो गणः शरीरगतादर वशेनैव हि जनोऽसंयमे परिग्रहे च वर्तते । अचेलेन तु तदादरस्त्यक्तः वातातपादिबाधा सहनात् । स्ववशता च गुणः । देशांतरगमनादौ सहायाप्रतीक्षणात्। पिच्छमात्र गृहीत्वाहि त्यक्तसकलपरिग्रहः पक्षीव यातीति । सचेलस्तु सहायपरवशमानसश्च कथं संयम पालयेत् । चेतोविशुद्धिप्रकटनं च गुणो चेलतायां कौपीनादिना प्रच्छादयतो भावशुद्धिर्न ज्ञायते । निश्चेलस्य तु निर्विकारदेहतयास्फुटा विशमता निर्भयता च गुणः - ममेदं किमपहरन्ति चौरादयः, किं ताडयन्ति, बध्नतीति वा भयमुपैति सचेलो भयातुरो वा कि न कुर्यात् । सर्वत्र विश्रब्धता च गुणः निष्परिग्रहः न किंचनापि शंकते। सचेलस्तु प्रति. मार्गयायिनं अन्यं वा दृष्ट्वा न तत्र विश्वासं करोति । को वेत्ययं, किंवा करोति । अप्रतिलेखनता च गुणः । चतुर्दशविधं उपधि गृह णतां बहुप्रतिलेखनता न तथा चेलस्य । परिकर्मवर्जनं च गुणः । उद्वेष्टनं, मोचनं,सीवनं,बन्धनं रञ्जनं इत्यादिकमनेकं परिकर्म सचेलस्य । स्वस्य वस्त्रप्रावरणादेः स्वयं प्रक्षालनं, सीवनं वा कुत्सिततं कर्म, विभूषा, मूर्छा च, लाघवं च गुणः । अचेलोऽल्पोपधिः स्थानासनगमनादिकासु क्रियासु वायुवदप्रतिबद्धो लघुभवति नेतर: । तीर्थकराचरित त्वं च गुणः, संहननबलसमग्रा मुक्तिमार्गप्रख्यापनपरजिनाः सर्व एवाचेला भूता भविष्यं तश्च यथामेर्वादिपर्वतगताः प्रतिमास्तीर्थकरमार्गानुयायि. नश्च गणधरा इति तेऽप्यचेलास्तच्छिष्याश्च तथैवेति सिद्धमचेलत्वं । चेलपरिवेष्टितांगो न जिनसदृशः । व्युत्सृष्टप्रलंवभुजो निश्चेलो जिनप्रतिरूपतां धत्ते । अतिगूढबलवीर्यता च गुणः । परीषहसहनेशक्तोऽपि सचेलो न परीषहान् सहते । एवमेतद्गुणावेक्षणादचेलता जिनोपदिष्टा । चेलपरिवेष्टितांग आत्मानं निर्ग्रथं यो वदेत्तस्य किमपरे पाषंडिनो न निर्ग्रन्था ? वयमेव न ते निर्ग्रन्था इति वाङ्मानं नाद्रियते मध्यस्थैः । इत्थं चेले दोषा अचेलतायां अपरिमिता गुणा इति अचेलता स्थितिकल्पत्वेनोक्ता।