________________
( १९ )
॥ १२ ॥ ज्ञानावरणे प्रज्ञानाने ।। १३ ॥ दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ।। चारित्रमोहें नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ वेदन ये शेषाः ।। १६ ॥ एकादयो भाज्या युगपदेकस्मिन्नेकोनविंशतिः ॥ १७ ॥ सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥ अनशनावसौंदर्यबृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्यं तपः ॥ १९ ॥ प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ नवचतुर्दशपञ्चद्विभदा यथाक्रम प्रारध्यानात् ॥ २१ ॥ आलोचनाप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपच्छेदपरिहारोपस्थापना: ।। २२ ॥ ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ आचार्योपाध्यायतपस्विशैक्ष्यग्लानगणकुलसङ्घसाधुमनोज्ञानाम् ॥ २४ ॥ वाचतापृच्छनानुप्रेझाम्नायधर्मोपदेशाः ॥ २५ ॥ बाह्या । भ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ॥ २७ ॥ आरौिद्रधHशुक्लानि ॥ २८ ॥ परे मोक्षहेतू ॥ २९ ॥ आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहासः ॥ ३०॥ विपरीतं मनोज्ञस्य ।। ३१ ॥ वेदनायाश्च ॥ ३२॥ निदानं च ॥ ३३ ॥ तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४ ॥ हिंसानतस्तेय वषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५ ॥ आज्ञापार्यावपाकसस्थानविचयाय धर्मन ।। ३६ ॥ शुक्ले चाद्ये पूर्वविदः ।। ३७ ॥ परे केवलिनः ॥ ३८ ॥ पृथक्त्वंकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्यपरतक्रियानिवर्तीनि ॥ ३९ ॥ त्र्येकयोगकाययोंगायोगानाम् ॥४०॥ एकाश्रये सवितर्कवीचारे पूर्वे ॥४१॥ अवीचारं द्वितीयम् ॥४२॥ वितकं: श्रुतम ॥ ४३ ॥ वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ।। सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥४५ । पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ संयमश्रुतप्रतिसेव नातीलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः ॥ ४७ ॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्र नवमोऽध्यायः ।
अथ दशमोध्याय मोहमयाज्ज्ञानदर्शनावरणान्तरायमधाच्च केवल ।। १ ।। बन्धहेत्वभावनिर्जराभ्यां कृस्नकर्मविप्रमोक्षो मोक्षः ।२। औपशमिकादिभव्यत्वानां च ।३। अन्यत्र केवल सम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः । ४ । तदनन्तरमध्वं गच्छत्यालोकान्तात् । ५ । पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथागतिपरिणामाच्च । ६ । आविद्धकुलालचक्रवद्यपगतले पालाबुवदेरण्डबीजवदग्निशिखावच्च । ७ । धर्मास्तिकाया भावात् । ८ । क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येक बुद्धबोधितज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्या । ९ ।
अन्त्यमंगलं ग्रथसमाप्तिश्च
जीयात्सज्जनताश्रयः शिवसुधाधारावधानप्रभुध्वस्तध्वांतततिः समुन्नतगतिस्तोत्रप्रतापान्वितः । प्रोजज्योतिरिवावगाहनकृतानंतस्थितिर्मानतः सन्मार्गस्त्रितयात्मकोऽखिलमलप्रज्वालनप्रक्षमः॥
इति तत्त्वार्थाधिगमे मोक्षशास्त्रे दशमोऽध्याय