________________
अथ चतुर्थोऽध्यायः। देवाश्चतुर्णिकायाः ॥ १॥ आदितस्त्रिषु पीतान्तलेश्याः ॥ २॥ दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३॥ इन्द्रसामानिकत्रास्त्रिशपारिषदात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकशः ॥ ४ ॥ त्रास्त्रिशल्लोकपालवा व्यन्तरज्योतिष्काः ॥ ५ ॥ पूर्वयोर्कीन्द्राः ॥ ६ ॥ कायप्रवीचारा आ ऐशानात् ॥७॥ शेषाः स्पर्शरूपशब्दमनः प्रवीचाराः ॥ ८॥ परेऽप्रवचाराः ॥ ९॥ भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदघिद्वीपदिक्कुमाराः ॥ १०॥ व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ११॥ ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥ मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ तत्कृतः कालविभागः ॥ १४ ॥ बहिरवस्थिताः ॥ १५ ॥ वैमानिकाः ।। १६ ॥ कल्पोपपत्राः कल्पातीताश्च ।।१७।। उपर्युपरि ॥१८॥ सौधम्मशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर्नवसु.प्रवेयकेषु विजयवंजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ।। स्थितिप्रमावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २० ॥ गतिशरीरपरिग्रहाभिमानतो हीनाः ॥२१॥ पोतपद्मशक्ललेश्या वित्रिशेषेषु ॥ २२॥ प्राग्वेयकेभ्यः कल्पाः ॥ २३ ।। ब्रह्मलोकालया लौकान्तिकाः ॥ २४॥ सारस्वतादित्यवन्झरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ विजयादिषु द्विचरमाः ॥ २६ ।। औपपादिकमनुष्येभ्यः शेषास्तियंग्योनयः ॥ २७ ॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिता ।। २८ ।। सौधर्मशानयोः सागरोपमे अधिके ।। २९ ।। सानकुमारमाहेन्द्रयोः सप्त ।। ३० ।। त्रिसप्तनवकादशत्रयोदशपञ्चदशभिरधिकानि तु ।। ३१ ।। आरणाच्युतादूर्वमेककेन नवसु ग्रंवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ।। ३२ ।। अपरा पल्योपममधिकम् ॥ ३३ ।। परतःपरतः पूर्वांपूर्वानन्तर। ।। ३४ ॥ नारकाणां च द्वितीयादिषु ।। ३५ ।। दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥ भवनेषु च ॥ ३७ ।। व्यन्तराणां च ।। ३८ ॥ परा पल्योपममधिकं ।। ३९ ।। ज्योतिष्काणां च ।। ४ ।। तदष्टभागोऽपरा ॥ ४१ ।। लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ।। ४२ ।।
इति चतुर्थोध्यायः ।
इति पञ्चमखण्डः समाप्तः।
-
-
-