________________
()
अथ तृतीयोध्यायः। रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुदाताकाशप्रतिष्ठाः सप्ताऽधोधः ॥१॥ तासु त्रिंशत्पंचविंशतिपंचदशदशत्रिपंचोनकनरकशतसहस्राणि पंच चैव यथा. क्रमम् ॥ २॥ नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ परस्परोदीरित" दुःखाः ॥ ४ ॥ संक्लिष्टासुरोदीरितदु:खाश्च प्राक्चतुर्थाः ॥ ५॥ तेष्वेकत्रिसप्तदशसप्तदश' द्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ जम्बूद्वीपलवणोदादयः शुमनामानो द्वापसमुद्राः ।। ७ ।। द्विद्धिविष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८॥ तन्मध्ये मेरुना. भित्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९॥ भरतहमवतहरिविदेहरम्यकहरण्यवतरावतवर्षाः क्षेत्राणि ॥ १० ॥ तद्विमाजिनः पूर्वापरायता हिमवन्महाहिमवनिषधनोलरुक्मिशिखरिणी वर्षधरपर्वताः ॥ ११ ॥ हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ मणिविचित्रपाङ उपरि मूले च तुल्यविस्ताराः ।। १३ ॥ पद्ममहापयतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि ॥ १४ ॥ प्रथमो योजनसहस्रायामस्तवई विष्कम्भो हृदः ।। १५ ॥ दशयोजनावगाहः ॥ १६ ॥ तन्मध्ये योजनं पुष्करम् ॥ १७ ॥ तद्विगुणद्विगुणा हृदाः पुष्कराणि च ॥ १८ ॥ तन्निवासिन्यो देव्यः श्रीन्हीधतिकीतिवृद्धिलक्षम्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ १९ ॥ मंगासिन्ध. रोहिखोहितास्याहरिद्धरिकान्तासीतासीतोदानारोनरकान्तासुवर्णरूप्यकूलारक्तारक्तोवाः सरितस्तन्मध्यगाः ॥ २०॥ योद्वयोः पूर्वाः पूर्वगाः ॥ २१ ॥ शेषास्त्वपरगाः ॥ २२ ।। चतुर्दशनदी. सहस्रपरिवृता गंगासिन्ध्वादयो नद्यः ॥२३॥ भरतः पविशतिपंचयोजनशतविस्तारः षट्चैकोन विशतिभागा योजनस्य ।। २४ ।। तद्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५ ॥ उत्तरा दक्षिणतुल्याः ।। २६ ॥ भरतरावतयोवृद्धि हासौ षट्समयाभ्यामुत्सपिण्यवसर्पिणीभ्याम् ।। २७ ॥ ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ एकद्वित्रिपल्योपमस्थितयो हेमवतकहारिवर्ष। कदेवकुरवकाः ॥ २९ ॥ तथोतराः ॥ ३० ।। विदेहेषु संख्येयकालाः ॥ ३१॥ भरतस्य विष्कम्मो जम्बूद्वीपस्य नबतिशतभागः ।। ३२ ।। द्विआँतकोखण्डे ।। ३३ ॥ पुष्कराद्धे च ॥३४॥ प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ आर्या म्लेच्छाश्च ॥ ३६ ॥ भरत रावतविवेहाः कर्मभूमयोऽ न्यत्र देवकुरूत्तरकुरुभ्यः ।। ३७ ॥ नस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥ तिर्यग्योनिजानां च ॥ ३९ ॥
इति तृतीयोध्यायः ।