________________
तत्वार्थ श्लोकवार्तिके
जायते तस्मात्तस्थ शब्दं गुणं विदुः ॥ ४ ॥ इत्यादि १ भूर्र्लोक २ भुवर्लोक ३ स्वर्लोक ४ महर् लोक ५ जनलोक ६ तपोलोक ७ सत्यलोक ८ अतल ९ वितल १० सुतल ११ नितल १२ तलातल १३ रसातल १४ पाताल इन चौदह भुवनों का सर्वाधिकारी सम्राट् महेश्वर है । यहांतक बड देर से कोई पौराणिक या स्मार्त पण्डित कह रहे हैं ।
४३०
तत्रैषां दूषणं सिसृक्षाया नित्यत्वाभावेपि दृष्टक्षित्यादिकारणसाकल्येपि स्थावरदीनां कदाचिदनुत्पत्तिप्रसंग: । कदाचित्तदभावसंभवात् तदंत्यसहकारिकारणसन्निधानानन्तरमेव सिसृक्षोत्पत्तेस्तदभावासंभवे तस्याः सहकारिकारणमभवत्वप्रसंग ः तदनन्तरभावनियमस्यान्यथानुपपत्तेः तेषां सहकारिष्मां सिसृक्षामुत्पादयतां सिसृक्षान्तरादुत्पत्तौ स्थावरादिवत् कदाचिदनुत्पतिप्रसंगस्तस्य कदाचिदसन्निधानादन्त्यकारणसंनिधानानन्तरमेव सिसृक्षातरस्योत्पत्ति नियमात् तदप्रसंगे तत्कारणप्रभवत्वप्रसंगस्तदनंतर भावनियमस्यान्यथानुपपत्तेः इत्यादि पुनरावर्तत इति चक्रक्रमेतत् । सिसृक्षांतरेणाप्रेरितानामेव सहकारिणामुत्पत्तौ तैरेव हेतूनामनेकांतिकत्वं सहकारिणां सिसृक्षया सह नियमनोत्पत्तेः स्थावरादीनां सकलकारणानां कदाचिदनुत्पतेः । प्रसंगाभावे सिसृक्षाया सहकारिणां च क्षित्यादीनामेकं कारणमुपपद्येत अन्यथा सहभावनियमायोगात् । तच्चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तज्जनकं तेनैव हेतुव्यभिचारस्तेन प्रेरितस्य तज्जनकत्वे कदाचित्तज्जननप्रसंग ः पूर्ववचस्यापि प्रेर्येण सह नियमेनोत्पत्तौ तयोरप्येकं कारणं स्यात्, तच्चैकं कारणं यदि सिसृक्षांतरेणाप्रेरितं तज्जनकं तेनैव हेतुव्यभिचार इत्यादि पुन - रावर्तत इति चक्रक्रमपरम् क्षित्यादिभिः प्रागनन्तरं नियमोत्पत्तौ सिसृक्षायाः सहकारिहेतुभिरेकसामग्र्यधीनता स्यादन्यथा प्रागनंतरं नियमोत्पत्त्ययोगात् सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेोरिता तज्जनिका तदा तयैव हेतुव्यभिचारः । यदि पुनः प्रेरिता सा तज्जनिका तदा प्रेर्यात्प्रागनंतर नियमेनोत्पत्त्या तस्या भवितव्यमन्यथोक्तदोषानुषंगात् तथा च सिसृक्षांतरं प्रेर्यात्सामग्र्यविशेषात्प्रागनंतरं नियमेनोत्पद्यमानं तद्धेतुभिरेकसामग्र्यधीनं स्यात् । सा चैका सामग्री यदि सिसृक्षांतरेणाप्रेरिता तज्जनिका तदा तयैव हेतुव्यभिचार इत्यादि पुनरावर्तत इत्यन्यच्चक्रकम् । तदेतददूषणं परिहर्तुकामेन क्षित्यादिभ्योनंतरं प्राक् सह वा तैः सिसृक्षोत्पत्तिनियमतो नाभ्युपगंतव्या तथा च तद्व्यतिरेकानुविधानमुपलभ्येत न चोपलभ्यते, क्षित्युदकवीजादिकारणसामग्रीसन्निधानेऽप्रतिबंधे चाऽसति स्थावरादिकार्यस्यावश्यंभावदर्शनादिति तदेतदयुक्तं, स्थावरादीनामदृष्टादिहेतुत्वेप्येतद्दोषप्रसंगात् स्वसिद्धांतविरोधात् । यदि पुनरदृष्टक्षित्यादिकारणसाकल्येपि स्थावरादीनां परिणामवैचित्र्याददृष्टादिसिद्धिः चक्षुरादिकारणसाकल्येपि