________________
परिशिष्टम्
[५७ दर्शनचारित्रमोहनीयाऽकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुनपुसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाश्चकशः क्रोधमानभायालोभाः ।।। नारकर्यग्योनमानुषदेवानि ।१०। गतिजातिशरीरांगोपांगनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगंधवर्षानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभमसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशस्कीतिसेतराणि तीर्थकरत्वं च ॥११॥ उच्चनीचश्च ।१२। दानलाभभोगोपभोगवीर्याणाम् ।१३। आदितस्तिसृणामन्तरा यस्य च त्रिंशत्साबरोपमकोटीकोटयः परा स्थितिः ।१४। सप्ततिर्मोहनीयस्य ।१५। विंशतिनभिगोत्रयोः ।१६। क्यस्त्रिशत्सागरोपमाण्यायुषः ।१७। अपरा द्वादश मुहूर्ता वेदनीयस्य।१८। नामगोत्रयोरष्टौ १६॥ शेषाणामन्तर्मुहूर्ता ।२०। विषाकोऽनुभवः ।२१। स यथानाम ।२२। ततश्च निर्जरा १२३। नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ।२४। सद्वद्यशुभायुर्नामगोत्राणि पुण्यम् ।२५। अतोऽन्यत्पापम् ।२६।।
॥ इति तत्त्वार्थसूत्रे अष्टमोध्यायः ॥ ..
आस्रवनिरोधः संवरः । १। स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ।। तपसा निर्जरा च ।३। सम्यग्योगनिग्रहो गुप्तिः ।४। ईर्याभाषेषणादाननिक्षेपोत्सर्गाः समितयः ।। उत्तमक्षमामार्दैवार्जशीचसत्यसंयमतपस्त्यागाकिचन्यब्रह्मचर्याणि धर्मः ।६। अनित्याशरणसंसारकत्वाऽन्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ।७। मार्गाऽच्यवननिर्जराथ परिसोडव्याः परीषहाः ।। क्षुत्पिपासाशीतोष्णदंशमशकनाग्नचाऽरक्तिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनाऽलाभरोगतृणस्पर्शमनसत्कारपुरस्कारप्रज्ञाऽज्ञानादर्शनानि ।।। सूक्ष्मसाम्परायच्छमस्थकीतरामयोश्चतुर्दश ॥१०॥ एकादशजिने ।११। बादरसाम्पराये सर्वे ।१२। ज्ञानावरणे प्रज्ञाऽज्ञाने ।१३। दर्शनमोहान्तराययोरदर्शनालाभौ ।१४। चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ।१५। वेदनीये शेषाः । १६। एकादयो भाज्या युगपदेकस्मिन्नैकानविंशतेः ।१७। सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥१८॥ अनशनावमौदर्यवृत्तिपरिसंखयानरसपरित्यागविविक्तशय्यासनकायक्लेशा बाह्य तपः।१६। प्रायश्चित्तविनयवैयापृत्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् । २० । नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्रारध्यानात् ।२१। आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोप