________________
५७८ ]
सुखबोधाया तत्त्वार्थवृत्ती स्थापनाः ।२२। ज्ञानदर्शनचारित्रोपचाराः ।२३। आचार्योपाध्यायतपस्विशक्षग्लानगणकुलसंघसाधुमनोज्ञानाम् ।२४। वाचनापृच्छनाऽनुप्रेक्षाम्नायधर्मोपदेशाः ।२५। बाह्याभ्यन्तरोपध्योः ।२६। उत्तमसंहननस्यकाग्रचिन्तानिरोधो ध्यानमान्तर्मुहूर्तात् ।२७। आरौिद्रधर्म्यशुक्लानि ।२८। परे मोक्षहेतू ।२६। आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ।३०। विपरीतं मनोज्ञस्य ।३१। वेदनायाश्च ।३२। निदानं च ।३३। तदविरतदेशविरतप्रमत्तसंयतानाम् ।३४। हिंसानृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ।३५। आज्ञापायविपाकसंस्थानविचयायधर्म्यम् ।३६। शुक्ले चाद्ये पूर्वविदः ।३७। परे केवलिनः ।३८) पृथक्त्वैकत्ववितर्कसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवृत्तीनि ३६। त्रय कयोगकाययोगायोगानाम् ।४०। एकाश्रये सवितर्कविचारे पूर्वे ।४१। अविचारं द्वितीयम् ।४२। वितर्कः श्रुतम् ।४३। विचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ।४४। सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शनमोहक्षपकोपशमकोपशान्तमोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंखय यगुणनिर्जराः ।४५। पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ।४६। संयमश्रुतप्रतिसेवनातीर्थलिंगलेश्योपपादस्थानविकल्पतः साध्याः ।४७।
॥ इति तत्त्वार्थसूत्रे नवमोध्यायः ।।
. . . मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ।१। बंधहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ।२। औपशमिकादिभव्यत्वानां च ।३। अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ।४। तदनन्तरमूवं गच्छत्यालोकान्तात् ।। पूर्वप्रयोगादसंगत्वाद्बंधच्छेदात्तथागतिपरिणामाच्च ।६। आविद्धकुलालचक्रवद्ध्यपगतलेपाऽलाबुवदेरण्डबीजवदग्निशिखावच्च ।७। धर्मास्तिकायाभावात् ।। क्षेत्रकालगतिलिंगतीर्थचारित्रप्रत्येकबुद्धबोधितज्ञानावगाहनान्तरसङ्ख्याऽल्पबहुत्वतः साध्याः ।।
॥ इति तत्त्वार्थसूत्रे दशमोऽध्यायः ।।