________________
* उत्पादादिसिद्धयनुसारेण सप्तभागीभावना *
। अतः
=-* जयतता *कथञ्चिञ्चैवमेकत्वे, द्रव्यपर्याययोः स्थिते । व्यावृत्तिमत कथं द्रव्यं पर्यायाणां स्वरूपवत् ॥३॥ अत्तो हि तेऽपि पर्यायाः सर्वेऽननुगतात्मकाः । द्रव्यं ह्यनुगतं तत्र भेदाभेदस्थितिः ततः ||४|| अत एव नित्यं तत्र द्रव्यमात्मादि विद्यते । पर्यायव्यतिरिक्तत्वात्, तद्विगमेऽप्यनाशतः ||५|| प्रत्यक्षतः प्रमीयेते कुम्भहारोदयव्ययी । सुवर्णाद् व्यतिरिक्तत्वात, सुवर्णञ्चानुवृत्तिमत् ।।६।। ततो निरन्चयो ध्वंस: स्थिरं वा नास्ति किञ्चन । पर्यायद्रव्ययोः स्तो हि व्यावृत्त्यनुगमाविमौ ॥७॥ न चोपलभ्यरूपस्य पर्यायानुगतात्मनः । आत्मन उगलम्भो नास्ति तनोऽस्ति प्रतिपन्नवत् ।।८।। विविधार्थक्रियायोग्यास्तुल्यादिज्ञानहेतवः । तथाविधार्थसङ्केतशब्दप्रत्ययगोचराः ।।२।। उदयव्ययधर्माणः पर्याया एव केवलाः । न वेद्यन्ते परन्त द्रव्यमध्यभेदभेदतः ॥१५॥ तस्मानार्हति नैरात्म्यं प्रत्यभिज्ञादिचाधतः । तस्मादङ्गीकुरु द्रव्यपर्यायौ पारमार्थिको ॥११॥ इत्येवं प्रतिविधीयते ।
यत्तु भासर्वज्ञेन “यदि भावानामुभयात्मकत्वं स्यात्, तदा स्वरूपेणैव घटश्चाऽघटश्च स्यात् । पररूपेणाऽघटत्वे हि गोणं । तदऽघटत्वं बटुमाणक्कादेरग्नेित्यसिं हत्वादिवत् । अतो गौणं तदुभयात्मकं वस्तु, मुख्यतस्तु स्वरूपेणैव यदात्मकं यत्तदात्मकमेव तत्" (न्या. भू.पृ.५५९) इत्युक्तं, तन्न मनोरमम्, न हि स्वरूपाऽपेक्षयाऽपितुः दशरथस्य रामापेक्षयाऽपि पितृत्वं गौणमेव, न तु मुख्यमिति वक्तुं शक्यते, अन्यथा सापेश्वधर्माणामुच्छेदः काल्पनिकत्वं वा प्रसज्येत । न परद्रव्याद्यपेक्षमाऽघटत्वमपि स्वद्रव्याद्यपेक्षया घटत्ववन्मुख्यमित्युपगन्तव्यम् । न ह्ययं नियमो यदुत स्वरूपेणैव मुख्यधर्मः पररूपेण तु गौण एवेति. अन्यथा पररूपेणैव मख्यधर्मः स्वरूपेण त गौण एवेति वदतो मखस्याऽपि पिधातमशक्यत्वादिति दिक।
इदं त्वच - स्यात्पदात एकान्तबद्रिावलक्षणबद्धविशषविषयतावच्छदकत्वेनव अनन्तधर्मघटितसप्तभङ्गीबोधेऽपि प्रातिस्विकरूपेण तद्वोधनार्थं विशेषप्रयोगोऽवश्यमाश्रयणीयः । यथा वृक्ष इत्युक्ते वृक्षत्वेन प्लक्षचोधेऽपि प्लक्षत्वेन तद्बोधार्थ विदोषप्रयोग
आश्रीपत इति । इदमेवाऽभिप्रेत्योक्तम् - "स्याच्छब्दादप्यनेकान्तसामान्यस्याऽवबोधने । शब्दान्तरप्रयोगोत्र विशेषप्रतिपत्तये ॥" | स्याच्छब्दस्य द्योतकत्वे तु न्यायप्राप्त एवाऽस्त्यादिशब्दप्रयोगः इत्यादिकं स्वसमयानुसारेण विभावनीयम् ।
सम्मतितर्कवत्यादौ त ततीय-चतर्थभङ्गयोः विपर्ययोऽपि दश्यते । श्रीचन्द्रसरिभिः उत्पादादिसिद्धिस्वोपजवन्ती सप्त || भलीभावना -> "तत्र यदा द्रव्यस्य प्राधान्यविवक्षा क्रियते तदा 'स्यादस्तीति कथ्यते, विवक्षितपर्यायरूपतया कार्यस्याऽभावेऽपि द्रव्यरूपतया सच्चात । यदा पर्यायाणां प्राधान्यविवक्षा क्रियते तदा 'स्यान्नास्ती'ति कथ्यते, द्रव्यरूपतया कार्यस्य सत्त्वेऽपि तद्विधपर्यायाऽपेक्षया असत्त्वात् । यदा त युगपदभयप्राधान्यविवक्षा क्रियते तदा 'स्यादवक्तव्यमिति व्यपदिश्यते । तथाहि - | तत्सदिति वक्तुं न शक्यते, द्रव्यरूपतया सत्त्वेऽपि पर्यायरूपतया सत्त्वात् । 'असदित्यपि वक्तुं न शक्यते, पर्यायरूपतया सत्त्वेऽपि द्रव्यरूपतया सत्त्वात् । ततः तस्य सच्छब्देनाइसच्छब्देन वा युगपत्प्रतिपादयितुमशक्यत्वात् अवक्तव्यम् । यदा परनिरपेक्षं इन्यरूपतया सत्त्वं पर्यायरूपतया चाऽसत्त्वं स्वात्मनिमग्नमेव विवक्ष्यते तदोभयावयवापेक्षया 'स्यादस्ति स्यान्नास्ति चेति व्यपदेशः प्रवर्तते, भेदमबलम्ब्योभयशब्दसमावेशेन तस्य प्रतिपादयितुं शक्यत्वात् । द्रव्याकारार्पणद्वारेण सत्त्वेनोक्ताऽवक्तव्यस्वरूप| निरूपणेन चोपदेशे ‘स्यादस्ति च नास्ति चाऽवक्तव्यञ्चेति सप्तभङ्गी" <- (उत्पा.सि.का.९ वृ.) इत्यादिरूपेण कार्यसत्त्वासत्त्व|| विधिप्रतिषेधकल्पनाद्वारेण प्रदर्शिता ।।
प्राचां प्रलपितं लीलया निराकृत्य साम्प्रतम् । नव्यानां जटिलां वार्च पराणेतुं समुद्यतः ।।१।।
अथ 'स्यादस्ति एव घटः' इत्यादी अस्तिशब्दवाच्यादर्धादभिन्नस्वभावो घदशब्दवाच्योऽर्थस्स्यात् आहोस्वित् भिन्नस्व| भावः ? इति द्विपक्षी राक्षसी प्रत्यक्षीबोभवीति । आये तु घटशब्दार्थो-स्तिशब्दार्थश्चक एवेति सामानाधिकरण्य-विशेषणविशेष्यभावादिकं | न स्यात् । 'घटः कलश' इत्यादिसामानाधिकरण्याद्यभाववत्, तदन्यतरपदाऽप्रयोगप्रसङ्गश्च दुर्निवारः । किञ्च सत्त्वाऽपराऽभिधान| स्याऽस्तित्वस्य सर्वद्रव्यपर्यायच्यापितया तदभिन्नस्वभावस्य घटस्य तथात्वं प्राप्तमिति समग्रविश्वस्य घटत्वप्रसङ्गः । द्वितीये त्वाह
DD
दोष का अवकाश नहीं है। अतः सप्तभंगी के प्रत्येक भंग में एवकार और स्यातपद का निवेश उचित एवं आवश्यक है, निरर्थक नहीं।
% 3D