________________
२२७ मध्यमस्याद्वादरहस्ये खण्डः २ . का.५ * वक्तव्यत्वसप्तभङ्गीस्थापनम् *
(१) क्रमाऽक्रमाभ्यां विध्युभयकल्पनासहकारेण स्यामित्य: स्यादवक्तव्यः । (६) ताभ्यां निषेधोभयकल्पनासहकारेण स्यादनित्य: स्यादवक्तव्यश्च । (9) ताभ्यामुभयकल्पनासहकारेण स्यानित्यः स्यादनित्यः स्यादवक्तव्य धेति। आऽपि समुदायाऽवलम्बिनी शक्षा प्राग्वनिरसनीया।
* गयलता * विध्यर्पणातः स्यान्नित्यत्वप्रकारको बोधो जायते, नित्यत्वनिषेधकल्पनासहकारात् स्यादनित्यत्वप्रकारकोऽवबोध उत्पद्यते । अतो वक्तव्यत्वप्रकारको बोधोऽवक्तव्यत्वप्रकारकज्ञानवस्रोदेति । न च वक्तव्यत्वविधिकल्पनासहकारात्तादृशाप्रत्ययप्रसङ्गो दुर्निवार इति वाच्यम्, स्यानित्यत्वादेर्वक्तव्यत्वव्याप्यत्वात् स्यानित्यत्वादिप्रकारकबोधादेव वक्तव्यत्वप्रकारकजिज्ञासोपरमात् । न.चैवमपि कथश्चिन्नित्यत्वग्रकारकबोधोदयात् प्राक् वक्तव्यत्वविधिकल्पनासहकारात् वक्तव्यत्वप्रकारकबोधों दुर्निवार इति वक्तव्यम् , इष्टत्वात् । न चाऽष्टमधर्मप्रसङ्गः; स्यान्नित्यत्वाद्यनतिरिक्तत्वात वक्तव्यत्वस्य । तदुक्तमष्टसहस्रीतात्पर्यविवरणे -> 'वक्तव्यत्वस्य कथंतागर्भत्वेन विशिष्य विश्रान्तत्वात, शब्दानुगममात्रस्याऽप्रयोजकत्वात्. सत्त्वादिना वक्तव्यत्वस्य सत्त्वादिसमनियतत्वेन निराकान्तया भङ्गान्तरानारम्भकत्वात् अन्यथाऽसद्भिन्नत्यादिनापि भङ्गान्तरापत्तेः <- (अ.स. चि.पृ. १८७) प्रकरणकृन्दिरबति ।
अस्तु वा वक्तव्यत्वं नाम कश्चनातिरिक्तधर्मस्तधापि वक्तव्यत्वाऽवक्तव्यत्वाभ्यां विधिनिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्गचन्तरमेव प्राप्नोतीति न सत्चासत्त्वादिसप्तविधधर्मन्याधात इति ध्येयम् ।
पश्चमधर्ममाह - क्रमाक्रमाभ्यामिति । बिध्यादौ यथाक्रममन्वयः । विध्युभयकल्पनासहकारेणेति । नित्यत्वविधिनित्यत्वविधिनिषेधोभयार्पणासाचिव्येनेति । स्यानित्यः स्यादवक्तव्य इति । प्रतीयत इति शेषः । द्रव्यत्वापणा- द्रव्यत्वपर्यायत्वोभयार्पणासाहाय्यन घटे कधश्चिनित्यत्व-कथञ्चिवक्तव्यत्वप्रकारकं विज्ञानमुत्पद्यते इति भावः ।
पठधर्ममुपदिशति- ताभ्यां = क्रमाक्रमाभ्यां, निषेधोभयकल्पनासहकारेण = नित्यत्वनिषेध-विधिनिषेधोभयभजनासमवधानेन, स्यादनित्यः स्यादवक्तव्यश्च । संवेद्यत इति शेषः । पर्यायत्त्वविवक्षा-द्रव्यत्यपर्यायवाभयविवक्षासंपातन घट स्यादनित्यत्व - स्यादवक्तव्यत्वप्रकारकं प्रत्यक्ष जायत इत्यभिप्रायः ।
सप्तमधर्मं निर्दिशति- ताभ्यां + क्रमाक्रमाभ्यां, उभयकल्पनासहकारेण = नित्यत्वविधि-नित्यत्वनिषेध-नित्यत्वविधिनिषेधोभयकल्पनासन्निधानेन, स्यानित्यः स्यादनित्यः स्यादवक्तव्यथेति । साक्षानियत इति शेषः । द्रव्यत्वापेक्षया पर्याय - त्वापेक्षया द्रव्यल्वपर्यायत्वोभयापेक्षया च घटः कीदशः' इति मीमांसायां सत्यां स्यानित्यत्वाऽनित्यत्वाऽवक्तव्यत्वरितयप्रकारको 'शोधो जायते. तादृशमीमांसा हितक्षयोपशमजन्यबोधविषयत्वात् तादृशधर्मस्येति भावः ।।
अत्रापि = चरमधर्मत्रिकेऽपि, समुदायाऽवलम्बिनी - 'पूर्वोकधर्मचतुष्कसमूहनिमित्तिका, शङ्का प्रागन्निरसनीयेति । अयं भावः अत्र स्यादियं शङ्का यदुत स्यानित्यत्वाप्रवक्तव्यन्वधर्मस्य प्रथमचतुर्थधर्मसमुदायेनैवोपपत्तौ किमर्थक पञ्चमधर्मकल्पनम् ?
Eucpचित् नित्य और कथंचित् अतरातत्य - स्यादादी 5 क्रमाक्र, इति । इस तरह क्रमशः विधि और युगपत् विधिनिषेध उभय की अर्पणा होने पर 'घट कथंचित् नित्य और ! कथंचित् अवक्तव्य है' ऐसी प्रतीति होती है। घट में द्रव्यल की अपेक्षा नित्यत्व और द्रव्यत्व-पर्यायत्वोभय की अपेक्षा अवक्तव्यन्व धर्म रहता है। यह पाँचवा धर्म है। इस तरह क्रमशः निषेध कल्पना और युगपत् उभयकल्पना के सहकार से 'घटः स्यादनित्यः स्यादवक्तव्यः' ऐसा प्रत्यक्ष होता है। अर्थात् पर्यायत्व की अपेक्षा और द्रव्यत्व-पर्यायत्वोभय की अपेक्षा घट में कथंचित् अनित्यत्व और कथंचित् अवक्तव्यत्व धर्म रहता है । यह हा धर्म है। इस तरह क्रमशः विधि की और निपेय की कल्पना तथा युगपत् उभय की अर्पणा होने पर 'घटः स्यानित्यः स्यादनित्यः स्यादवकन्यच ऐसा साक्षात्कार होता है। मतलब कि द्रव्यत्व की अपेक्षा, पर्यायत्व की अपेक्षा और द्रव्यत्व-पर्यायवोभय की अपेक्षा घट में कथंचित् नित्यत्व, कथंचित् अनित्यत्व और कथंचित अवक्तव्यत्व धर्म रहता है । यह ७ वा धर्म है ।
अन्तिम तीज धर्म का समावेश पूर्व धर्म में नहीं हो सकता - स्यादादी ___अत्रापि, इति । यहाँ यह शंका हो कि -> "पाँचवें धर्म का निर्वाह तो प्रथम और चतुर्थ धर्म के समुदाय से ही हो जायेगा । इस तरह छट्ठे धर्म की उपपत्ति तो मिलित द्वितीय और चतुर्थ भंग से ही हो सकेगी। तथा सप्तम धर्म का