SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ३६९ मध्यमस्यालादरहस्ये खण्डः २ का ५ * दीधितिकारमतखण्डनम् हेतुतान्दयकल्पने गौरवादिति वाच्यम्, उभयत्वस्यैकविशिष्टाऽपरतया विशेषणविशेष्यभावे विनिगमनाविरहात् । - * जयलता * कल्पने गौरवादिति । पृथक्कार्यकारणभावद्वयकल्पनागौरवस्य पूर्वमेवोपस्थितेर्द्रव्यलौकिकचाक्षुषत्वावच्छिन्नं प्रति समवायेनोद्भूतरूपस्य न हेतुत्वं सम्भवति येन चन्द्रादिप्रभाद्रव्यस्य प्रत्यक्षत्वेन प्रौढप्रकाशकयावत्तेजः संसर्गाभावस्यातीन्द्रियत्वं न स्यात् । ततः प्रकाशकरूपाभावस्यैव तमस्त्वमभ्युपगन्तुमर्हतीति प्रगल्भतात्पर्यम् । तद्वयपोहाय प्रकरणकारो यतते उभयत्वस्येति । एकविशिष्टापरतया विशेषणविशेष्यभावे विनिगमनाविरहादिति । उद्भूतरूपस्पर्शोभयस्य बहिरिन्द्रियजन्यलौकिकद्रव्यप्रत्यक्षत्वावच्छिन्नं प्रति कारणत्वे कारणतावच्छेदकीभूतोभयत्वं किं प्रकृते उद्भूतरूपविशिष्टोद्भूतस्पर्शत्वरूपं यदुतोद्भूतस्पर्शविशिष्टोद्भूतरूपत्वरूपं ? इत्यत्र विनिगमकाभावाद् द्वयोः कारणतावच्छेदकत्वकल्पनागौरवस्याऽधिकंदोषत्वात् । न च पूर्व 'अविशिष्टयोरपि गोत्वाऽश्वत्वयोरुभयत्वप्रत्ययात्तस्याऽतिरिक्तधर्मत्वात्' (दृश्यतां ९० तमे पृष्ठे प्रथम खण्डे ) इत्युक्तं साम्प्रतःञ्चोभयत्वमेकविशिष्टाऽपरत्वलक्षणमुक्तमिति कथं न पूर्वापरविरोध इति वक्तव्यम्, प्रगल्भमते उभयत्वस्यैकविशिष्टाऽपरत्वात्मकत्वेन प्रकृते तत्पुरतः तथाकथने दोषाभावात् । वस्तुतस्तूभयत्वं न सर्वथाऽतिरिक्तम्, अविशिष्टयोरपि एकज्ञानविषयत्वादिसम्बन्धेन वैशिष्ट्यस्य सम्भवात् । एतेन 'उभयत्वं हि न विशिष्टत्वादनतिरिक्तं न ना तदवच्छिन्नाभावस्तदवच्छिन्नाभावात्, वैशिष्ट्यविरहेऽपि घटत्व - पटत्वयोरुभयत्वस्य उभयत्वेन तदभावस्य च प्रत्यक्षसिद्धत्वात्' (सि. दी. पृ. ८४ ) इति सिद्धान्तलक्षणदीधितिकारवचनमपि प्रत्याख्यातम् । अभ्युपगमवादेन उभयत्वस्याऽतिरिक्तत्वाऽङ्गीकारेऽपि प्रकृते उद्भूतरूपस्पर्शोभयस्य वहिरिन्द्रियजन्यसाक्षात्कारे चाक्षुषे स्पार्शने च प्रत्येकं हेतुता पर्यवस्यतीति प्रगल्भमते गौरवमनिवारितमेवेति द्रव्यचाक्षुषे उद्भूतरूपस्य द्रव्य -स्पार्शने चोदृत्तस्पर्शस्यैव हेतुत्वाऽभ्युपगम उचितः । एतेन सुर्यदि रहिरिन्द्रियजात्रा प्यार्शनसाक्षात्कारगोचरद्रव्यं वा स्यात्, उद्भूतरूप: स्यात्, तादृशसाक्षात्कारविषयद्रव्यस्योद्भूतरूपजनकत्वनियमादिति प्रत्युक्तम्, द्रव्यस्य रूपवत्समवेतत्वेनैव रूपजनकत्वात् न तु तादृशसाक्षात्कारविषयद्रव्यत्वेन, कारणतावच्छेदकधर्मगौरवात्, तस्य रूपजननोत्तरकालीनत्वाच । अत एव स्पार्शनत्वे उद्भूतस्पर्शवदुद्भूतरूपमपि तन्त्रं उद्भूतरूपवत्त्वे चाक्षुषत्ववत् स्पार्शनत्वदर्शनादिति पराकृतम्, उद्भूतरूपवत्त्वे सत्यपि प्रभाया अस्पार्शनत्वेनोद्भूतस्पर्शस्यावश्यकत्वे उद्भूतरूपस्याऽन्यथासिद्धत्वात् । न हि उद्भूतस्पर्शे सत्युद्भूतरूपाभावात् द्रव्ये स्पार्शनत्वाऽभावो दृष्टचर: 1 - यत्तु नव्यमतं दर्शयता गङ्गेशेन 'द्रव्यस्य स्पार्शनले उद्भूतस्पर्शमात्रं न तन्त्रं निदाघोष्मणि वायूपनीतशीतोष्णद्रव्ये च प्रत्यक्षत्वेन तद्गतसङ्ख्या परिमाण संयोग-विभाग- कर्मणां प्रत्यक्षत्वप्रसङ्गात्, योग्यव्यक्तिवृत्तित्वेन तेषां योग्यतया द्रव्यग्राहकसामग्रीग्राह्यत्वाऽवधारणात् । न चोष्मादिजातीये दोषाभावेऽपि घटादाविव करपरामर्शे कदाचित् केनाऽपि सङ्ख्या गृह्यते । तथोद्भूतरूपवत्त्वमात्रस्य तथात्वे चान्द्राद्युद्योतस्य नयनगतपित्तद्रव्यस्य च प्रत्यक्षत्वे तद्गतसङ्ख्याग्रहोऽपि स्यात् । न च घटादाविव निपुणं निभालयन्तोऽपि तद्गतसङ्ख्याद्वित्वादि हस्तवितस्त्यादिपरिमाणं कर्म वा वीक्षामहे इत्येकेकव्यभिचाराद्विनिंगम| काभावादुभयमपि बहिरिन्द्रियद्रव्यप्रत्यक्षत्वे प्रयां जकमिति वायुरप्रत्यक्ष' (त. चिं. प्र. ख. पृ. ७३८) इत्युक्तं तत्तु जयदेवमिश्रेणैव तत्त्वचिन्तामण्यालोके उभयप्रयोजकतागौरवदोषेण दूषितम् । वस्तुतस्तु 'वातं स्पृशामी' त्याद्यबाधितानुभवबलाद्वायो: स्पार्शनत्वमेव । न च दोषाऽभावे सति द्रव्यग्रहे तद्गतसङ्ख्यादिग्रहनियमाद् वाय सर्वथा तदग्रहात्र स प्रत्यक्ष इति वाच्यम्, यतो न तावदयं व्यक्तौ नियमः, पृष्ठलग्नवस्त्रादेः सङ्ख्यापरिमाणाऽग्रहेऽपि त्वचा तद्ग्रहात् । नाऽपि तज्जातीय, फूत्कारादी सङ्ख्या परिमाणादीनां वाय्वभिघातस्य च शरीरे प्रत्यक्षकी कल्पना करनी पड़ेगी, जो कि गौरवग्रस्त होने से उपादेय नहीं हो सकती । अतः लाघवसहकार से द्रव्यचाक्षुषमात्र, जो बहिरिन्द्रियजन्य हो, उसके प्रति उद्भूतरूप- स्पर्शोभय को ही कारण मानना उचित है । चन्द्रादि की प्रथा में उद्भूत रूप होने पर भी उद्भूत स्पर्श नहीं होने की वजह 'एकसत्त्वेऽपि उभयं नास्ति' न्याय से उभयाज्भाव सिद्ध होता है। कारण के अभाव से चन्द्रादि की प्रभा का बहिरिन्द्रियजन्य प्रत्यक्ष नहीं हो सकता । अतएव उसमें अतीन्द्रियत्व की सिद्धि से प्रौढप्रकाशक यावत्तेजोद्रव्य के संसर्गाभावात्मक अन्धकार के अतीन्द्रियत्व का प्रसङ्ग ज्यों का त्यों बना रहता है" तो यह भी ठीक नहीं है। इसका कारण यह है कि उभयत्व एकविशिष्टाऽपरत्वस्वरूप है, न कि प्रत्येक से अतिरिक्तरूप । अतएव विशेषणविशेष्यभाव
SR No.090487
Book TitleSyadvadarahasya Part 2
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDivya Darshan Trust
Publication Year
Total Pages370
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy