________________
बडापत्तेयं कसिणे आया, जे बाला जे य पंडिया। संति पेच्चा ण तेसिंति, नथि सत्तावेवाइया ॥११॥
व्याख्या-तज्जीवतच्छरीरवादी एवं ब्रूते 'पत्तेयं कसिणे आय ' त्ति, 'प्रत्येकं' शरीरं प्रति प्रत्येकं आत्मानः कृत्स्नाः ' सर्वेऽपि, शरीरं प्रति पृथगेवात्मा इति भावः, न पुनः सर्वगत एक एवात्मा 'जे बाला जे य पंडिया'। ये ‘बाला' मूर्खा ये च ' पण्डिताः ' सदसद्विवेकज्ञास्ते सर्वे पृथग् व्यवस्थिताः, यद्येक एवात्मा सर्वव्यापकः स्यात्तबसौ बालः पण्डितश्चासौ, नायं लोके व्यवहारः परिस्फुटः स्यात् , दृश्यते चायं प्रसिद्धो व्यवहार आबालगोपालादिषु अयं || बालः अयं पण्डित इत्यादि, तर्हि ज्ञायते-शरीरं शरीरं प्रति पृथगेवात्मा, नहि सर्वजगद्व्यापी एक एवेति, एवमात्मनो बहुत्वमाहतानामपीष्टमेव इत्याशंक्याह-जैनाना मते तन्मते च न कोऽपि भेदः स्यात्, परमयं विशेष:-आत्मनां बहुत्वमस्ति, परं यावच्छरीरं तावदेवात्मा, शरीरविनाशे आत्मनोऽपि विनाशः, शरीराद्भिन्नो गत्यन्तरगामी आत्मा नास्त्येव, तदेव दर्शयति-'संति पेच्चा ण तेसिं' ति, परलोकानुयायी शरीराद्भिन्नः स्वकर्मफलभोक्ता न कश्चिदात्मारया पदार्थोऽस्तीति भावः । किमित्येवमत आह-'नथि सत्तोववाइया' अस्ति शब्द एकवचनोऽप्यत्र बहुवचनान्तो द्रष्टव्यः, ततश्च न विद्यन्ते 'सच्चाः' प्राणिना, उपपातेन निवृत्ताः औषपातिकाः, भवाद्भवान्तरगामिनो न भ अत्राह पर:-प्रागुपन्यस्तभूतवादिनोऽस्य च तज्जीवतच्छरीरवादिनश्च मिथः को विशेषः ? इत्यत्रोच्यते-भूतवादिना त्वेवं प्ररूप्यते-भृतान्येव कायाकारपरिणतानि धावनवल्गनादिकां क्रियां कुर्वन्ति, तज्जीवतच्छरीरवादी स्वेवं प्ररूपयति-कायाकार. परिणतेम्यो भूतेभ्यश्चेतनाख्य आत्मोत्पद्यते अभिव्यज्यते वा तेभ्यश्वामिन इति । कायाकारपरिणतेभ्यो भूतेभ्य आत्मोत्पद्यते,