________________
निसिं पञ्चमाणाणं ।। १॥” इति वचनात् । देवाश्च सदाऽपि सुखिन एव, यतः " तेहिं देवा वंतरिया, वरतरुणीगीयवाइयरवेणं । निचं सुहिया पमुइया, गयंपि कालं न याणंति ॥ २॥" एवं वैमानिका अपि सुखिनः | | " देवाणं देवलोए,जं सुक्खं तं नरो सुभणिओवि । न भणइ वाससएण वि, जस्स वि जीहासयं हुना॥३॥ तिर्यश्चस्तु दुःखिन एव "तिरिया कसंकुसारा-निवायवहबंधमारणसयाई । नेव इहं पाविता, परत्थ जह नीमिया हंता ॥४॥" मनुष्यास्तु केपि सुखिनः केऽपि दुखिनः “केचिल्लक्षम्भरया, कोटिम्भरयश्च केऽपि केपि नराः । केऽपि च नात्मम्भरयः, फलमेतत्सुकृतदुष्कृतयोः ॥५॥" एवं चातुर्गतिका अपि प्राणिनः सुखदुःखव्यवस्थया व्यवस्थिता विलोक्यन्ते, यतः " प्रत्यक्ष एवं विश्वेऽस्मिन् , प्रपश्चः पुण्यपापयोः। यद्विभिन्नं जगत्सर्वे, सुखदुःखव्यवस्थया ॥१॥" एवं स्थिते ये केचन वादिनः " एक एव हि भूतात्मा, देहे देहे व्यव• IN स्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥१॥” इत्यादिप्ररूपयन्ति, तत्सर्व मिथ्या, किश्च-सर्वगतत्वे आत्मनो बन्धमोक्षाघभावः, तथा प्रतिपाद्यप्रतिपादकविवेकाभावाच्छास्त्रप्रणयनाभावश्च स्यादिति, तेनोन्मत्तप्रलपितमिव | भवदुक्तं न सङ्गतिमङ्गतीति श्रुत्वा सर्वगतात्मवादी मौनमालम्ध्य स्थितः ॥ १०॥ अथ तज्जीवतच्छरीरवादी प्राह
१ तत्र देवा व्यन्तरिका वरतरुणीगीतवादितरवेण । नित्यं सखिताः प्रमुदिता गतमपि कालं न जानन्ति ॥२॥ २ देवानां देवलोके यत्सुखं तन्नरः सुभणितोऽपि । न भणति वर्षशतेनापि यस्यापि जिह्वाशतं भवेत ॥ २॥ ३ तियश्वः कषाशारानिपातवघबन्धनमारणशतानि । नैवेह प्राप्नुयुः परत्र यदि नियमिता अभूवन् ॥ ४ ॥